Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 3

संस्कृत

Passage 3.1

अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्यꣳ स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥

पदच्छेद

अथathaअधिदैवतम्adhidaivatamयःyaḥएवevaअसौasauतपतिtapatiतम्tamउद्गीथम्udgīthamउपासीतupāsītaउद्यन्udyanवैvaiएषःeṣaḥप्रजाभ्यःprajābhyaḥउद्गायतिudgāyatiउद्यन्udyanतमःtamaḥभयम्bhayamअपहन्तिapahantiअपहन्ताapahantāहhaवैvaiभयस्यbhayasyaतमसःtamasaḥभवतिbhavatiयःyaḥएवम्evamवेदveda

अन्वय

अथ अधिदैवतम् [उच्यते] । यः एव असौ तपति, तम् उद्गीथम् उपासीत । एषः वै उद्यन् प्रजाभ्यः उद्गायति; उद्यन् तमः भयम् [च] अपहन्ति । यः एवम् वेद, [सः] भयस्य तमसः अपहन्ता ह वै भवति ।

Passage 3.2

समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥

पदच्छेद

समानःsamānaḥउuएवevaअयम्ayamचcaअसौasauचcaउष्णःuṣṇaḥअयम्ayamउष्णःuṣṇaḥअसौasauस्वरःsvaraḥइतिitiइमम्imamआचक्षतेācakṣateस्वरःsvaraḥइतिitiप्रत्यास्वरःpratyāsvaraḥइतिitiअमुम्amumतस्मात्tasmātवैvaiएतम्etamइमम्imamअमुम्amumचcaउद्गीथम्udgīthamउपासीतupāsīta

अन्वय

अयम् च [प्राणः सवित्रा] समानः उ एव [अस्ति]; असौ च [सविता प्राणेन समानः अस्ति] । अयम् उष्णः [अस्ति]; असौ उष्णः [अस्ति] । इमम् स्वरः इति आचक्षते; अमुम् स्वरः इति प्रत्यास्वरः इति [आचक्षते] । तस्मात् वै एतम् इमम् अमुम् च उद्गीथम् उपासीत ।

Passage 3.3

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ ३ ॥

पदच्छेद

अथathaखलुkhaluव्यानम्vyānamएवevaउद्गीथम्udgīthamउपासीतupāsītaयत्yatवैvaiप्राणितिprāṇitiसःsaḥप्राणःprāṇaḥयत्yatअपानितिapānitiसःsaḥअपानःapānaḥअथathaयःyaḥप्राणापानयोःprāṇāpānayoḥसन्धिःsandhiḥसःsaḥव्यानःvyānaḥयःyaḥव्यानःvyānaḥसाsāवाक्vākतस्मात्tasmātअप्राणन्aprāṇanअनपानन्anapānanवाचम्vācamअभिव्याहरतिabhivyāharati

अन्वय

अथ खलु व्यानम् एव उद्गीथम् उपासीत । यत् वै प्राणिति, सः प्राणः [अस्ति]; यत् अपानिति, सः अपानः [अस्ति] । अथ यः प्राणापानयोः सन्धिः [अस्ति], सः व्यानः [अस्ति] । यः व्यानः [अस्ति], सा वाक् [अस्ति] । तस्मात् अप्राणन् अनपानन् वाचम् अभिव्याहरति ।

Passage 3.4

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ ४ ॥

पदच्छेद

याyāवाक्vākसाsāऋक्ṛkतस्मात्tasmātअप्राणन्aprāṇanअनपानन्anapānanऋचम्ṛcamअभिव्याहरतिabhivyāharatiयाyāऋक्ṛkतत्tatसामsāmaतस्मात्tasmātअप्राणन्aprāṇanअनपानन्anapānanसामsāmaगायतिgāyatiयत्yatसामsāmaसःsaḥउद्गीथःudgīthaḥतस्मात्tasmātअप्राणन्aprāṇanअनपानन्anapānanउद्गायतिudgāyati

अन्वय

या वाक् [अस्ति], सा ऋक् [अस्ति] । तस्मात् अप्राणन् अनपानन् ऋचम् अभिव्याहरति । या ऋक् [अस्ति], तत् साम [अस्ति] । तस्मात् अप्राणन् अनपानन् साम गायति । यत् साम [अस्ति], सः उद्गीथः [अस्ति] । तस्मात् अप्राणन् अनपानन् उद्गायति ।

Passage 3.5

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानꣳ स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ ५ ॥

पदच्छेद

अतःataḥयानिyāniअन्यानिanyāniवीर्यवन्तिvīryavantiकर्माणिkarmāṇiयथाyathāअग्नेःagneḥमन्थनम्manthanamआजेःājeḥसरणम्saraṇamदृढस्यdṛḍhasyaधनुषःdhanuṣaḥआयमनम्āyamanamअप्राणन्aprāṇanअनपानन्anapānanतानिtāniकरोतिkarotiएतस्यetasyaहेतोःhetoḥव्यानम्vyānamएवevaउद्गीथम्udgīthamउपासीतupāsīta

अन्वय

अतः यानि अन्यानि वीर्यवन्ति कर्माणि [सन्ति], यथा अग्नेः मन्थनम्, आजेः सरणम्, दृढस्य धनुषः आयमनम्, तानि अप्राणन् अनपानन् करोति । एतस्य हेतोः व्यानम् एव उद्गीथम् उपासीत ।

Passage 3.6

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदꣳ सर्वꣳ स्थितम् ॥ ६ ॥

पदच्छेद

अथathaखलुkhaluउद्गीथाक्षराणिudgīthākṣarāṇiउपासीतupāsītaउद्udगीgīथthaइतिitiप्राणःprāṇaḥएवevaउत्utप्राणेनprāṇenaहिhiउत्तिष्ठतिuttiṣṭhatiवाक्vākगीःgīḥवाचःvācaḥहhaगिरःgiraḥइतिitiआचक्षतेācakṣateअन्नम्annamथम्thamअन्नेanneहिhiइदम्idamसर्वम्sarvamस्थितम्sthitam

अन्वय

अथ खलु उद्गीथः इति उद्गीथाक्षराणि उपासीत । प्राणः एव उत् [अस्ति], प्राणेन हि उत्तिष्ठति । वाक् गीः [अस्ति], वाचः ह गिरः इति आचक्षते । अन्नम् थम् [अस्ति], अन्ने हि इदम् सर्वम् स्थितम् [अस्ति] ।

Passage 3.7

द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थꣳ सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ ७ ॥

पदच्छेद

द्यौःdyauḥएवevaउत्utअन्तरिक्षम्antarikṣamगीःgīḥपृथिवीpṛthivīथम्thamआदित्यःādityaḥएवevaउत्utवायुःvāyuḥगीःgīḥअग्निःagniḥथम्thamसामवेदःsāmavedaḥएवevaउत्utयजुर्वेदःyajurvedaḥगीःgīḥऋग्वेदःṛgvedaḥथम्thamदुग्धेdugdheअस्मैasmaiवाक्vākदोहम्dohamयःyaḥवाचःvācaḥदोहःdohaḥअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiयःyaḥएतानिetāniएवम्evamविद्वान्vidvānउद्गीथाक्षराणिudgīthākṣarāṇiउपास्तेupāsteउद्udगीgīथthaइतिiti

अन्वय

द्यौः एव उत् [अस्ति]; अन्तरिक्षम् गीः [अस्ति]; पृथिवी थम् [अस्ति] । आदित्यः एव उत् [अस्ति]; वायुः गीः [अस्ति]; अग्निः थम् [अस्ति] । सामवेदः एव उत् [अस्ति]; यजुर्वेदः गीः [अस्ति]; ऋग्वेदः थम् [अस्ति] । यः एवम् विद्वान् उद्गीथः इति एतानि उद्गीथाक्षराणि उपास्ते, [तस्मै] अस्मै वाक् दोहम् दुग्धे, यः वाचः दोहः [अस्ति] । [सः] अन्नवान् अन्नादः भवति ।

Passage 3.8

अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ ८ ॥

पदच्छेद

अथathaखलुkhaluआशीःसमृद्धिःāśīḥsamṛddhiḥउपसरणानिupasaraṇāniइतिitiउपासीतupāsītaयेनyenaसाम्नाsāmnāस्तोष्यन्stoṣyanस्यात्syātतत्tatसामsāmaउपधावेत्upadhāvet

अन्वय

अथ खलु आशीःसमृद्धिः उपसरणानि इति उपासीत । येन साम्ना स्तोष्यन् स्यात्, तत् साम उपधावेत् ।

Passage 3.9

यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥

पदच्छेद

यस्याम्yasyāmऋचिṛciताम्tāmऋचम्ṛcamयत्yatआर्षेयम्ārṣeyamतम्tamऋषिम्ṛṣimयाम्yāmदेवताम्devatāmअभिष्टोष्यन्abhiṣṭoṣyanस्यात्syātताम्tāmदेवताम्devatāmउपधावेत्upadhāvet

अन्वय

यस्याम् ऋचि [तत् साम भवति], ताम् ऋचम् [उपधावेत्] । यत् [साम] आर्षेयम् [अस्ति], तम् ऋषिम् [उपधावेत्] । याम् देवताम् अभिष्टोष्यन् स्यात्, ताम् देवताम् उपधावेत् ।

Passage 3.10

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तꣳ स्तोममुपधावेत् ॥ १० ॥

पदच्छेद

येनyenaछन्दसाchandasāस्तोष्यन्stoṣyanस्यात्syātतत्tatछन्दःchandaḥउपधावेत्upadhāvetयेनyenaस्तोमेनstomenaस्तोष्यमाणःstoṣyamāṇaḥस्यात्syātतम्tamस्तोमम्stomamउपधावेत्upadhāvet

अन्वय

येन छन्दसा स्तोष्यन् स्यात्, तत् छन्दः उपधावेत् । येन स्तोमेन स्तोष्यमाणः स्यात्, तम् स्तोमम् उपधावेत् ।

Passage 3.11

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ ११ ॥

पदच्छेद

याम्yāmदिशम्diśamअभिष्टोष्यन्abhiṣṭoṣyanस्यात्syātताम्tāmदिशम्diśamउपधावेत्upadhāvet

अन्वय

याम् दिशम् अभिष्टोष्यन् स्यात्, ताम् दिशम् उपधावेत् ।

Passage 3.12

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२ ॥

पदच्छेद

आत्मानम्ātmānamअन्ततःantataḥउपसृत्यupasṛtyaस्तुवीतstuvītaकामम्kāmamध्यायन्dhyāyanअप्रमत्तःapramattaḥअभ्याशःabhyāśaḥहhaयत्yatअस्मैasmaiसःsaḥकामःkāmaḥसमृध्येतsamṛdhyetaयत्कामःyatkāmaḥस्तुवीतstuvītaइतिitiयत्कामःyatkāmaḥस्तुवीतstuvītaइतिiti

अन्वय

अन्ततः आत्मानम् उपसृत्य कामम् ध्यायन् अप्रमत्तः स्तुवीत । अभ्याशः [क्षिप्रम्] ह यत् [यत्र] अस्मै [एवंविदे] सः कामः समृध्येत, यत्कामः [सन्] स्तुवीत इति; यत्कामः स्तुवीत इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 3

Read the whole section →