Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 2

संस्कृत

Passage 39.1

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूꣳष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥

पदच्छेद

अथathaयेyeअस्यasyaदक्षिणाःdakṣiṇāḥरश्मयःraśmayaḥताःtāḥएवevaअस्यasyaदक्षिणाःdakṣiṇāḥमधुनाड्यःmadhunāḍyaḥयजूंषिyajūṃṣiएवevaमधुकृतःmadhukṛtaḥयजुर्वेदःyajurvedaḥएवevaपुष्पम्puṣpamताःtāḥअमृताःamṛtāḥआपःāpaḥ

अन्वय

अथ अस्य ये दक्षिणाः रश्मयः [सन्ति], ताः एव अस्य दक्षिणाः मधुनाड्यः [सन्ति] । यजूंषि एव मधुकृतः [सन्ति]; यजुर्वेदः एव पुष्पम् [अस्ति]; ताः अमृताः आपः [सन्ति] ।

Passage 39.2

तानि वा एतानि यजूꣳष्येतं यजुर्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳरसोजायत ॥ २ ॥

पदच्छेद

तानिtāniवैvaiएतानिetāniयजूंषिyajūṃṣiएतम्etamयजुर्वेदम्yajurvedamअभ्यतपन्abhyatapanतस्यtasyaअभितप्तस्यabhitaptasyaयशःyaśaḥतेजःtejaḥइन्द्रियम्indriyamवीर्यम्vīryamअन्नाद्यम्annādyamरसःrasaḥअजायतajāyata

अन्वय

तानि वा एतानि यजूंषि एतम् यजुर्वेदम् अभ्यतपन् । अभितप्तस्य तस्य यशः तेजः इन्द्रियम् वीर्यम् अन्नाद्यम् [इति] रसः अजायत ।

Passage 39.3

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लꣳरूपम् ॥ ३ ॥

पदच्छेद

तत्tatव्यक्षरत्vyakṣaratतत्tatआदित्यम्ādityamअभितःabhitaḥअश्रयत्aśrayatतत्tatवैvaiएतत्etatयत्yatएतत्etatआदित्यस्यādityasyaशुक्लम्śuklamरूपम्rūpam

अन्वय

तत् व्यक्षरत्; तत् आदित्यम् अभितः अश्रयत् । यत् एतत् आदित्यस्य शुक्लम् रूपम् [अस्ति], तत् वा एतत् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 2

Read the whole section →