Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 7

संस्कृत

Passage 146.1

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥

पदच्छेद

यःyaḥआत्माātmāअपहतपाप्माapahatapāpmāविजरःvijaraḥविमृत्युःvimṛtyuḥविशोकःviśokaḥविजिघत्सःvijighatsaḥअपिपासःapipāsaḥसत्यकामःsatyakāmaḥसत्यसङ्कल्पःsatyasaṅkalpaḥसःsaḥअन्वेष्टव्यःanveṣṭavyaḥसःsaḥविजिज्ञासितव्यःvijijñāsitavyaḥसःsaḥसर्वान्sarvānचcaलोकान्lokānआप्नोतिāpnotiसर्वान्sarvānचcaकामान्kāmānयःyaḥतम्tamआत्मानम्ātmānamअनुविद्यanuvidyaविजानातिvijānātiइतिitiहhaप्रजापतिःprajāpatiḥउवाचuvāca

अन्वय

यः आत्मा अपहतपाप्मा विजरः विमृत्युः विशोकः विजिघत्सः अपिपासः सत्यकामः सत्यसङ्कल्पः [अस्ति], सः अन्वेष्टव्यः; सः विजिज्ञासितव्यः । यः तम् आत्मानम् अनुविद्य विजानाति, सः सर्वान् च लोकान् सर्वान् च कामान् आप्नोति इति ह प्रजापतिः उवाच ।

Passage 146.2

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥

पदच्छेद

तत्tatहhaउभयेubhayeदेवासुराःdevāsurāḥअनुबुबुधिरेanububudhireतेteहhaऊचुःūcuḥहन्तhantaतम्tamआत्मानम्ātmānamअन्वेच्छामःanvecchāmaḥयम्yamआत्मानम्ātmānamअन्विष्यanviṣyaसर्वान्sarvānचcaलोकान्lokānआप्नोतिāpnotiसर्वान्sarvānचcaकामान्kāmānइतिitiइन्द्रःindraḥहhaएवevaदेवानाम्devānāmअभिप्रवव्राजabhipravavrājaविरोचनःvirocanaḥअसुराणाम्asurāṇāmतौtauहhaअसंविदानौasaṃvidānauएवevaसमित्पाणीsamitpāṇīप्रजापतिसकाशम्prajāpatisakāśamआजग्मतुःājagmatuḥ

अन्वय

तत् ह उभये देवासुराः अनुबुबुधिरे । ते ह उचुः—हन्त तम् आत्मानम् अन्वेच्छामः, यम् आत्मानम् अन्विष्य सर्वान् च लोकान् सर्वान् च कामान् आप्नोति इति । देवानाम् इन्द्रः ह एव अभिप्रवव्राज; असुराणाम् विरोचनः [अभिप्रवव्राज] । तौ ह असंविदानौ एव समित्पाणी प्रजापतिसकाशम् आजग्मतुः ।

Passage 146.3

तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्तावास्तमिति । तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥

पदच्छेद

तौtauहhaद्वात्रिंशतम्dvātriṃśatamवर्षाणिvarṣāṇiब्रह्मचर्यम्brahmacaryamऊषतुःūṣatuḥतौtauहhaप्रजापतिःprajāpatiḥउवाचuvācaकिम्kimइच्छन्तौicchantauआस्तम्āstamइतिitiतौtauहhaऊचतुःūcatuḥयःyaḥआत्माātmāअपहतपाप्माapahatapāpmāविजरःvijaraḥविमृत्युःvimṛtyuḥविशोकःviśokaḥविजिघत्सःvijighatsaḥअपिपासःapipāsaḥसत्यकामःsatyakāmaḥसत्यसङ्कल्पःsatyasaṅkalpaḥसःsaḥअन्वेष्टव्यःanveṣṭavyaḥसःsaḥविजिज्ञासितव्यःvijijñāsitavyaḥसःsaḥसर्वान्sarvānचcaलोकान्lokānआप्नोतिāpnotiसर्वान्sarvānचcaकामान्kāmānयःyaḥतम्tamआत्मानम्ātmānamअनुविद्यanuvidyaविजानातिvijānātiइतिitiभगवतःbhagavataḥवचःvacaḥवेदयन्तेvedayanteतम्tamइच्छन्तौicchantauअवास्तम्avāstamइतिiti

Passage 146.4

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥

पदच्छेद

तौtauहhaप्रजापतिःprajāpatiḥउवाचuvācaयःyaḥएषःeṣaḥअक्षिणिakṣiṇiपुरुषःpuruṣaḥदृश्यतेdṛśyateएषःeṣaḥआत्माātmāइतिitiहhaउवाचuvācaएतत्etatअमृतम्amṛtamअभयम्abhayamएतत्etatब्रह्मbrahmaइतिitiअथathaयःyaḥअयम्ayamभगवःbhagavaḥअप्सुapsuपरिख्यायतेparikhyāyateयःyaḥचcaअयम्ayamआदर्शेādarśeकतमःkatamaḥएषःeṣaḥइतिitiएषःeṣaḥउuएवevaएषुeṣuसर्वेषुsarveṣuअन्तेषुanteṣuपरिख्यायतेparikhyāyateइतिitiहhaउवाचuvāca

अन्वय

प्रजापतिः तौ ह उवाच—यः एषः अक्षिणि पुरुषः दृश्यते, एषः आत्मा इति ह उवाच; एतत् अमृतम् अभयम्, एतत् ब्रह्म इति । अथ [तौ ऊचतुः]—भगवः, यः अयम् अप्सु परिख्यायते, यः च अयम् आदर्शे [परिख्यायते], एषः कतमः इति । एषः उ एव एषु सर्वेषु अन्तेषु परिख्यायते इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 7

Read the whole section →