Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 11

संस्कृत

Passage 150.1

तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥

पदच्छेद

तत्tatयत्रyatraएतत्etatसुप्तःsuptaḥसमस्तःsamastaḥसंप्रसन्नःsaṃprasannaḥस्वप्नम्svapnamनnaविजानातिvijānātiएषःeṣaḥआत्माātmāइतिitiहhaउवाचuvācaएतत्etatअमृतम्amṛtamअभयम्abhayamएतत्etatब्रह्मbrahmaइतिitiसःsaḥहhaशान्तहृदयःśāntahṛdayaḥप्रवव्राजpravavrājaसःsaḥहhaअप्राप्यaprāpyaएवevaदेवान्devānएतत्etatभयम्bhayamददर्शdadarśaनnaअहahaखलुkhaluअयम्ayamएवम्evamसंप्रतिsaṃpratiआत्मानम्ātmānamजानातिjānātiअयम्ayamअहम्ahamअस्मिasmiइतिitiनnaउuएवevaइमानिimāniभूतानिbhūtāniविनाशम्vināśamएवevaअपीतःapītaḥभवतिbhavatiनnaअहम्ahamअत्रatraभोग्यम्bhogyamपश्यामिpaśyāmiइतिiti

अन्वय

तत् यत्र एतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नम् न विजानाति, एषः आत्मा इति ह उवाच; एतत् अमृतम् अभयम्, एतत् ब्रह्म इति । सः ह शान्तहृदयः प्रवव्राज । सः ह देवान् अप्राप्य एव एतत् भयम् ददर्श—अयम् ह खलु एवम् सम्प्रति अयम् अहम् अस्मि इति आत्मानम् न जानाति; इमानि भूतानि उ एव न [जानाति] । विनाशम् एव अपीतः भवति; अहम् अत्र भोग्यम् न पश्यामि इति ।

Passage 150.2

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

पदच्छेद

सःsaḥसमित्पाणिःsamitpāṇiḥपुनःpunaḥएयायeyāyaतम्tamहhaप्रजापतिःprajāpatiḥउवाचuvācaमघवन्maghavanयत्yatशान्तहृदयःśāntahṛdayaḥप्राव्राजीःprāvrājīḥकिम्kimइच्छन्icchanपुनःpunaḥआगमःāgamaḥइतिitiसःsaḥहhaउवाचuvācaनnaअहahaखलुkhaluअयम्ayamभगवःbhagavaḥएवम्evamसंप्रतिsaṃpratiआत्मानम्ātmānamजानातिjānātiअयम्ayamअहम्ahamअस्मिasmiइतिitiनnaउuएवevaइमानिimāniभूतानिbhūtāniविनाशम्vināśamएवevaअपीतःapītaḥभवतिbhavatiनnaअहम्ahamअत्रatraभोग्यम्bhogyamपश्यामिpaśyāmiइतिiti

अन्वय

सः समित्पाणिः पुनः एयाय । प्रजापतिः तम् ह उवाच—मघवन्, यत् शान्तहृदयः प्राव्राजीः, किम् इच्छन् पुनः आगमः इति । सः ह उवाच—भगवः, अयम् ह खलु एवम् सम्प्रति अयम् अहम् अस्मि इति आत्मानम् न जानाति; इमानि भूतानि उ एव न [जानाति] । विनाशम् एव अपीतः भवति; अहम् अत्र भोग्यम् न पश्यामि इति ।

Passage 150.3

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतꣳ संपेदुरेतत्तद्यदाहुरेकशतꣳ ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥

पदच्छेद

एवम्evamएवevaएषःeṣaḥमघवन्maghavanइतिitiहhaउवाचuvācaएतम्etamतुtuएवevaतेteभूयःbhūyaḥअनुव्याख्यास्यामिanuvyākhyāsyāmiनnaउuएवevaअन्यत्रanyatraएतस्मात्etasmātवसvasaअपराणिaparāṇiपञ्चpañcaवर्षाणिvarṣāṇiइतिitiसःsaḥहhaअपराणिaparāṇiपञ्चpañcaवर्षाणिvarṣāṇiउवासuvāsaतानिtāniएकशतम्ekaśatamसंपेदुःsaṃpeduḥएतत्etatतत्tatयत्yatआहुःāhuḥएकशतम्ekaśatamहhaवैvaiवर्षाणिvarṣāṇiमघवान्maghavānप्रजापतौprajāpatauब्रह्मचर्यम्brahmacaryamउवासuvāsaतस्मैtasmaiहhaउवाचuvāca

अन्वय

मघवन्, एषः एवम् एव इति ह उवाच । एतम् तु एव ते भूयः अनुव्याख्यास्यामि; एतस्मात् अन्यत्र उ एव न [अनुव्याख्यास्यामि] । अपराणि पञ्च वर्षाणि वस इति । सः ह अपराणि पञ्च वर्षाणि उवास । तानि एकशतम् सम्पेदुः । एतत् तत् यत् आहुः—मघवान् प्रजापतौ एकशतम् ह वै वर्षाणि ब्रह्मचर्यम् उवास । तस्मै ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 11

Read the whole section →