Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 6

संस्कृत

Passage 43.1

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

पदच्छेद

तत्tatयत्yatप्रथमम्prathamamअमृतम्amṛtamतत्tatवसवःvasavaḥउपजीवन्तिupajīvantiअग्निनाagnināमुखेनmukhenaनnaवैvaiदेवाःdevāḥअश्नन्तिaśnantiनnaपिबन्तिpibantiएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यन्तिtṛpyanti

अन्वय

तत् यत् प्रथमम् अमृतम् [अस्ति], तत् वसवः अग्निना मुखेन उपजीवन्ति । वै देवाः न अश्नन्ति, न पिबन्ति; एतत् एव अमृतम् दृष्ट्वा तृप्यन्ति ।

Passage 43.2

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥

पदच्छेद

तेteएतत्etatएवevaरूपम्rūpamअभिसंविशन्तिabhisaṃviśantiएतस्मात्etasmātरूपात्rūpātउद्यन्तिudyanti

अन्वय

ते एतत् एव रूपम् अभिसंविशन्ति; एतस्मात् रूपात् उद्यन्ति ।

Passage 43.3

स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamअमृतम्amṛtamवेदvedaवसूनाम्vasūnāmएवevaएकःekaḥभूत्वाbhūtvāअग्निनाagnināएवevaमुखेनmukhenaएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यतिtṛpyatiसःsaḥयःyaḥएतत्etatएवevaरूपम्rūpamअभिसंविशतिabhisaṃviśatiएतस्मात्etasmātरूपात्rūpātउदेतिudeti

अन्वय

यः एतत् अमृतम् एवम् वेद, सः वसूनाम् एव एकः भूत्वा अग्निना एव मुखेन एतत् एव अमृतम् दृष्ट्वा तृप्यति । सः यः एतत् एव रूपम् अभिसंविशति, [सः] एतस्मात् रूपात् उदेति ।

Passage 43.4

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ४ ॥

पदच्छेद

सःsaḥयावत्yāvatआदित्यःādityaḥपुरस्तात्purastātउदेताudetāपश्चात्paścātअस्तमेताastametāवसूनाम्vasūnāmएवevaतावत्tāvatआधिपत्यम्ādhipatyamस्वाराज्यम्svārājyamपर्येताparyetā

अन्वय

यावत् आदित्यः पुरस्तात् उदेता, पश्चात् अस्तमेता, सः तावत् वसूनाम् एव आधिपत्यम् स्वाराज्यम् पर्येता ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 6

Read the whole section →