Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 7

संस्कृत

Passage 7.1

अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते वागेव सा प्राणोऽमस्तत्साम ॥ १ ॥

पदच्छेद

अथathaअध्यात्मम्adhyātmamवाक्vākएवevaऋक्ṛkप्राणःprāṇaḥसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateवाक्vākएवevaसाsāप्राणःprāṇaḥअमःamaḥतत्tatसामsāma

अन्वय

अथ अध्यात्मम् [उच्यते] । वाक् एव ऋक् [अस्ति]; प्राणः साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । वाक् एव सा [अस्ति]; प्राणः अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 7.2

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते चक्षुरेव सात्मामस्तत्साम ॥ २ ॥

पदच्छेद

चक्षुःcakṣuḥएवevaऋक्ṛkआत्माātmāसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateचक्षुःcakṣuḥएवevaसाsāआत्माātmāअमःamaḥतत्tatसामsāma

अन्वय

चक्षुः एव ऋक् [अस्ति]; आत्मा साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । चक्षुः एव सा [अस्ति]; आत्मा अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 7.3

श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते श्रोत्रमेव सा मनोऽमस्तत्साम ॥ ३ ॥

पदच्छेद

श्रोत्रम्śrotramएवevaऋक्ṛkमनःmanaḥसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateश्रोत्रम्śrotramएवevaसाsāमनःmanaḥअमःamaḥतत्tatसामsāma

अन्वय

श्रोत्रम् एव ऋक् [अस्ति]; मनः साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । श्रोत्रम् एव सा [अस्ति]; मनः अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 7.4

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ ४ ॥

पदच्छेद

अथathaयत्yatएतत्etatअक्ष्णःakṣṇaḥशुक्लम्śuklamभाःbhāḥसाsāएवevaऋक्ṛkअथathaयत्yatनीलम्nīlamपरःparaḥकृष्णम्kṛṣṇamतत्tatसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateअथathaयत्yatएवevaएतत्etatअक्ष्णःakṣṇaḥशुक्लम्śuklamभाःbhāḥसाsāएवevaसाsāअथathaयत्yatनीलम्nīlamपरःparaḥकृष्णम्kṛṣṇamतत्tatअमःamaḥतत्tatसामsāma

अन्वय

अथ यत् एतत् अक्ष्णः शुक्लम् भाः [अस्ति], सा एव ऋक् [अस्ति] । अथ यत् नीलम् परः कृष्णम् [अस्ति], तत् साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । अथ यत् एव एतत् अक्ष्णः शुक्लम् भाः [अस्ति], सा एव सा [अस्ति] । अथ यत् नीलम् परः कृष्णम् [अस्ति], तत् अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 7.5

अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥

पदच्छेद

अथathaयःyaḥएषःeṣaḥअन्तःantaḥअक्षिणिakṣiṇiपुरुषःpuruṣaḥदृश्यतेdṛśyateसाsāएवevaऋक्ṛkतत्tatसामsāmaतत्tatउक्थम्ukthamतत्tatयजुःyajuḥतत्tatब्रह्मbrahmaतस्यtasyaएतस्यetasyaतत्tatएवevaरूपम्rūpamयत्yatअमुष्यamuṣyaरूपम्rūpamयौyauअमुष्यamuṣyaगेष्णौgeṣṇauतौtauगेष्णौgeṣṇauयत्yatनामnāmaतत्tatनामnāma

अन्वय

अथ यः एषः अन्तरक्षिणि पुरुषः दृश्यते, सा एव ऋक् [अस्ति]; तत् साम [अस्ति]; तत् उक्थम् [अस्ति]; तत् यजुः [अस्ति]; तत् ब्रह्म [अस्ति] । अमुष्य यत् रूपम् [अस्ति], तस्य एतस्य तत् एव रूपम् [अस्ति] । अमुष्य यौ गेष्णौ [स्तः], [अस्य] तौ गेष्णौ [स्तः] । [अमुष्य] यत् नाम [अस्ति], [अस्य] तत् नाम [अस्ति] ।

Passage 7.6

स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥

पदच्छेद

सःsaḥएषःeṣaḥयेyeचcaएतस्मात्etasmātअर्वाञ्चःarvāñcaḥलोकाःlokāḥतेषाम्teṣāmचcaईष्टेīṣṭeमनुष्यकामानाम्manuṣyakāmānāmचcaइतिitiतत्tatयेyeइमेimeवीणायाम्vīṇāyāmगायन्तिgāyantiएतम्etamतेteगायन्तिgāyantiतस्मात्tasmātतेteधनसनयःdhanasanayaḥ

अन्वय

ये च एतस्मात् अर्वाञ्चः लोकाः [सन्ति], तेषाम् च मनुष्यकामानाम् च सः एषः ईष्टे इति । तत् ये इमे वीणायाम् गायन्ति, ते एतम् गायन्ति । तस्मात् ते धनसनयः [सन्ति] ।

Passage 7.7

अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताꣳ श्चाप्नोति देवकामास्ताꣳ श्च ॥ ७ ॥

पदच्छेद

अथathaयःyaḥएतत्etatएवम्evamविद्वान्vidvānसामsāmaगायतिgāyatiउभौubhauसःsaḥगायतिgāyatiसःsaḥअमुनाamunāएवevaसःsaḥएषःeṣaḥयेyeचcaअमुष्मात्amuṣmātपराञ्चःparāñcaḥलोकाःlokāḥतान्tānचcaआप्नोतिāpnotiदेवकामान्devakāmānचca

Passage 7.8

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳ श्चाप्नोति मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥

पदच्छेद

अथathaअनेनanenaएवevaयेyeचcaएतस्मात्etasmātअर्वाञ्चःarvāñcaḥलोकाःlokāḥतान्tānचcaआप्नोतिāpnotiमनुष्यकामान्manuṣyakāmānचcaतस्मात्tasmātउuहhaएवंवित्evaṃvitउद्गाताudgātāब्रूयात्brūyāt

अन्वय

अथ अनेन एव ये च एतस्मात् अर्वाञ्चः लोकाः [सन्ति], तान् च मनुष्यकामान् च [सः] आप्नोति । तस्मात् उ ह एवंवित् उद्गाता [कम् ते कामम् आगायानि इति] ब्रूयात् ।

Passage 7.9

कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९ ॥

पदच्छेद

कम्kamतेteकामम्kāmamआगायानिāgāyāniइतिitiएषःeṣaḥहिhiएवevaकामागानस्यkāmāgānasyaईष्टेīṣṭeयःyaḥएवम्evamविद्वान्vidvānसामsāmaगायतिgāyatiसामsāmaगायतिgāyati

अन्वय

[उद्गाता] कम् ते कामम् आगायानि इति [ब्रूयात्] । हि यः एवम् विद्वान् साम गायति, साम गायति, एषः एव कामागानस्य ईष्टे ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 7

Read the whole section →