Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 13

संस्कृत

Passage 13.1

अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकारः ॥ १ ॥

पदच्छेद

अयम्ayamवावvāvaलोकःlokaḥहाउकारःhāukāraḥवायुःvāyuḥहाइकारःhāikāraḥचन्द्रमाःcandramāḥअथकारःathakāraḥआत्माātmāइहकारःihakāraḥअग्निःagniḥईकारःīkāraḥ

अन्वय

अयम् वाव लोकः हाउकारः [अस्ति] । वायुः हाइकारः [अस्ति] । चन्द्रमा अथकारः [अस्ति] । आत्मा इहकारः [अस्ति] । अग्निः ईकारः [अस्ति] ।

Passage 13.2

आदित्य ऊकारो निहव एकारो विश्वे देवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥

पदच्छेद

आदित्यःādityaḥऊकारःūkāraḥनिहवःnihavaḥएकारःekāraḥविश्वेviśveदेवाःdevāḥऔहोयिकारःauhoyikāraḥप्रजापतिःprajāpatiḥहिङ्कारःhiṅkāraḥप्राणःprāṇaḥस्वरःsvaraḥअन्नम्annamयाyāवाक्vākविराट्virāṭ

अन्वय

आदित्यः ऊकारः [अस्ति] । निहवः एकारः [अस्ति] । विश्वे देवाः औहोयिकारः [सन्ति] । प्रजापतिः हिङ्कारः [अस्ति] । प्राणः स्वरः [अस्ति] । अन्नम् या [अस्ति] । वाक् विराट् [अस्ति] ।

Passage 13.3

अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः ॥ ३ ॥

पदच्छेद

अनिरुक्तःaniruktaḥत्रयोदशःtrayodaśaḥस्तोभःstobhaḥसञ्चरःsañcaraḥहुङ्कारःhuṅkāraḥ

अन्वय

सञ्चरः हुङ्कारः अनिरुक्तः त्रयोदशः स्तोभः [अस्ति] ।

Passage 13.4

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवꣳ साम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ ४ ॥

पदच्छेद

दुग्धेdugdheअस्मैasmaiवाक्vākदोहम्dohamयःyaḥवाचःvācaḥदोहःdohaḥअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiयःyaḥएताम्etāmएवम्evamसाम्नाम्sāmnāmउपनिषदम्upaniṣadamवेदvedaउपनिषदम्upaniṣadamवेदvedaइतिiti

अन्वय

यः एताम् साम्नाम् उपनिषदम् एवम् वेद, अस्मै वाक् दोहम् दुग्धे, यः [दोहः] वाचः दोहः [अस्ति] । [सः] अन्नवान् अन्नादः भवति । उपनिषदम् वेद इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 13

Read the whole section →