Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 7

संस्कृत

Passage 44.1

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

पदच्छेद

अथathaयत्yatद्वितीयम्dvitīyamअमृतम्amṛtamतत्tatरुद्राःrudrāḥउपजीवन्तिupajīvantiइन्द्रेणindreṇaमुखेनmukhenaनnaवैvaiदेवाःdevāḥअश्नन्तिaśnantiनnaपिबन्तिpibantiएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यन्तिtṛpyanti

अन्वय

अथ यत् द्वितीयम् अमृतम् [अस्ति], तत् रुद्राः इन्द्रेण मुखेन उपजीवन्ति । वै देवाः न अश्नन्ति, न पिबन्ति; एतत् एव अमृतम् दृष्ट्वा तृप्यन्ति ।

Passage 44.2

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥

पदच्छेद

तेteएतत्etatएवevaरूपम्rūpamअभिसंविशन्तिabhisaṃviśantiएतस्मात्etasmātरूपात्rūpātउद्यन्तिudyanti

अन्वय

ते एतत् एव रूपम् अभिसंविशन्ति; एतस्मात् रूपात् उद्यन्ति ।

Passage 44.3

स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamअमृतम्amṛtamवेदvedaरुद्राणाम्rudrāṇāmएवevaएकःekaḥभूत्वाbhūtvāइन्द्रेणindreṇaएवevaमुखेनmukhenaएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यतिtṛpyatiसःsaḥएतत्etatएवevaरूपम्rūpamअभिसंविशतिabhisaṃviśatiएतस्मात्etasmātरूपात्rūpātउदेतिudeti

अन्वय

यः एतत् अमृतम् एवम् वेद, सः रुद्राणाम् एव एकः भूत्वा इन्द्रेण एव मुखेन एतत् एव अमृतम् दृष्ट्वा तृप्यति । सः एतत् एव रूपम् अभिसंविशति; एतस्मात् रूपात् उदेति ।

Passage 44.4

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ४ ॥

पदच्छेद

सःsaḥयावत्yāvatआदित्यःādityaḥपुरस्तात्purastātउदेताudetāपश्चात्paścātअस्तमेताastametāद्विःdviḥतावत्tāvatदक्षिणतःdakṣiṇataḥउदेताudetāउत्तरतःuttarataḥअस्तमेताastametāरुद्राणाम्rudrāṇāmएवevaतावत्tāvatआधिपत्यम्ādhipatyamस्वाराज्यम्svārājyamपर्येताparyetā

अन्वय

यावत् आदित्यः पुरस्तात् उदेता, पश्चात् अस्तमेता, [ततः] द्विः तावत् [आदित्यः] दक्षिणतः उदेता, उत्तरतः अस्तमेता, सः तावत् रुद्राणाम् एव आधिपत्यम् स्वाराज्यम् पर्येता ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 7

Read the whole section →