Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 15

संस्कृत

Passage 128.1

प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वँ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥

पदच्छेद

प्राणःprāṇaḥवैvaiआशायाःāśāyāḥभूयान्bhūyānयथाyathāवैvaiअराःarāḥनाभौnābhauसमर्पिताःsamarpitāḥएवम्evamअस्मिन्asminप्राणेprāṇeसर्वम्sarvamसमर्पितम्samarpitamप्राणःprāṇaḥप्राणेनprāṇenaयातिyātiप्राणःprāṇaḥप्राणम्prāṇamददातिdadātiप्राणायprāṇāyaददातिdadātiप्राणःprāṇaḥहhaपिताpitāप्राणःprāṇaḥमाताmātāप्राणःprāṇaḥभ्राताbhrātāप्राणःprāṇaḥस्वसाsvasāप्राणःprāṇaḥआचार्यःācāryaḥप्राणःprāṇaḥब्राह्मणःbrāhmaṇaḥ

अन्वय

प्राणः वा आशायाः भूयान् [अस्ति] । यथा वा अराः नाभौ समर्पिताः [सन्ति], एवम् अस्मिन् प्राणे सर्वम् समर्पितम् [अस्ति] । प्राणः प्राणेन याति; प्राणः प्राणम् ददाति; [प्राणः] प्राणाय ददाति । प्राणः ह पिता [अस्ति]; प्राणः माता [अस्ति]; प्राणः भ्राता [अस्ति]; प्राणः स्वसा [अस्ति]; प्राणः आचार्यः [अस्ति]; प्राणः ब्राह्मणः [अस्ति] ।

Passage 128.2

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥

पदच्छेद

सःsaḥयदिyadiपितरम्pitaramवाvāमातरम्mātaramवाvāभ्रातरम्bhrātaramवाvāस्वसारम्svasāramवाvāआचार्यम्ācāryamवाvāब्राह्मणम्brāhmaṇamवाvāकिञ्चित्kiñcitभृशम्bhṛśamइवivaप्रत्याहpratyāhaधिक्dhikत्वाtvāअस्तुastuइतिitiएवevaएनम्enamआहुःāhuḥपितृहाpitṛhāवैvaiत्वम्tvamअसिasiमातृहाmātṛhāवैvaiत्वम्tvamअसिasiभ्रातृहाbhrātṛhāवैvaiत्वम्tvamअसिasiस्वसृहाsvasṛhāवैvaiत्वम्tvamअसिasiआचार्यहाācāryahāवैvaiत्वम्tvamअसिasiब्राह्मणहाbrāhmaṇahāवैvaiत्वम्tvamअसिasiइतिiti

अन्वय

सः यदि पितरम् वा मातरम् वा भ्रातरम् वा स्वसारम् वा आचार्यम् वा ब्राह्मणम् वा किञ्चित् भृशम् इव प्रत्याह, [तदा] एनम्, त्वा धिक् अस्तु इति एव आहुः; त्वम् पितृहा वै असि, त्वम् मातृहा वै असि, त्वम् भ्रातृहा वै असि, त्वम् स्वसृहा वै असि, त्वम् आचार्यहा वै असि, त्वम् ब्राह्मणहा वै असि इति [आहुः] ।

Passage 128.3

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥

पदच्छेद

अथathaयदिyadiअपिapiएनान्enānउत्क्रान्तप्राणान्utkrāntaprāṇānशूलेनśūlenaसमासम्samāsamव्यतिषंदहेत्vyatiṣaṃdahetनnaएवevaएनम्enamब्रूयुःbrūyuḥपितृहाpitṛhāअसिasiइतिitiनnaमातृहाmātṛhāअसिasiइतिitiनnaभ्रातृहाbhrātṛhāअसिasiइतिitiनnaस्वसृहाsvasṛhāअसिasiइतिitiनnaआचार्यहाācāryahāअसिasiइतिitiनnaब्राह्मणहाbrāhmaṇahāअसिasiइतिiti

अन्वय

अथ यदि अपि एनान् उत्क्रान्तप्राणान् शूलेन समासम् व्यतिषंदहेत्, एनम्, पितृहा असि इति न एव ब्रूयुः, मातृहा असि इति न [ब्रूयुः], भ्रातृहा असि इति न [ब्रूयुः], स्वसृहा असि इति न [ब्रूयुः], आचार्यहा असि इति न [ब्रूयुः], ब्राह्मणहा असि इति न [ब्रूयुः] ।

Passage 128.4

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥

पदच्छेद

प्राणःprāṇaḥहिhiएवevaएतानिetāniसर्वाणिsarvāṇiभवतिbhavatiसःsaḥवैvaiएषःeṣaḥएवम्evamपश्यन्paśyanएवम्evamमन्वानःmanvānaḥएवम्evamविजानन्vijānanअतिवादीativādīभवतिbhavatiतम्tamचेत्cetब्रूयुःbrūyuḥअतिवादीativādīअसिasiइतिitiअतिवादीativādīअस्मिasmiइतिitiब्रूयात्brūyātनnaअपह्नुवीतapahnuvīta

अन्वय

प्राणः हि एव एतानि सर्वाणि भवति । सः वा एषः एवम् पश्यन्, एवम् मन्वानः, एवम् विजानन् अतिवादी भवति । चेत् तम्, अतिवादी असि इति ब्रूयुः, [सः] अतिवादी अस्मि इति ब्रूयात्, न अपह्नुवीत ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 15

Read the whole section →