Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 10

संस्कृत

Passage 47.1

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

पदच्छेद

अथathaयत्yatपञ्चमम्pañcamamअमृतम्amṛtamतत्tatसाध्याःsādhyāḥउपजीवन्तिupajīvantiब्रह्मणाbrahmaṇāमुखेनmukhenaनnaवैvaiदेवाःdevāḥअश्नन्तिaśnantiनnaपिबन्तिpibantiएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यन्तिtṛpyanti

अन्वय

अथ यत् पञ्चमम् अमृतम् [अस्ति], तत् साध्याः ब्रह्मणा मुखेन उपजीवन्ति । वै देवाः न अश्नन्ति, न पिबन्ति; एतत् एव अमृतम् दृष्ट्वा तृप्यन्ति ।

Passage 47.2

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥

पदच्छेद

तेteएतत्etatएवevaरूपम्rūpamअभिसंविशन्तिabhisaṃviśantiएतस्मात्etasmātरूपात्rūpātउद्यन्तिudyanti

अन्वय

ते एतत् एव रूपम् अभिसंविशन्ति; एतस्मात् रूपात् उद्यन्ति ।

Passage 47.3

स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamअमृतम्amṛtamवेदvedaसाध्यानाम्sādhyānāmएवevaएकःekaḥभूत्वाbhūtvāब्रह्मणाbrahmaṇāएवevaमुखेनmukhenaएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यतिtṛpyatiसःsaḥएतत्etatएवevaरूपम्rūpamअभिसंविशतिabhisaṃviśatiएतस्मात्etasmātरूपात्rūpātउदेतिudeti

अन्वय

यः एतत् अमृतम् एवम् वेद, सः साध्यानाम् एव एकः भूत्वा ब्रह्मणा एव मुखेन एतत् एव अमृतम् दृष्ट्वा तृप्यति । सः एतत् एव रूपम् अभिसंविशति; एतस्मात् रूपात् उदेति ।

Passage 47.4

स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वमुदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ४ ॥

पदच्छेद

सःsaḥयावत्yāvatआदित्यःādityaḥउत्तरतःuttarataḥउदेताudetāदक्षिणतःdakṣiṇataḥअस्तमेताastametāद्विःdviḥतावत्tāvatऊर्ध्वम्ūrdhvamउदेताudetāअर्वाक्arvākअस्तमेताastametāसाध्यानाम्sādhyānāmएवevaतावत्tāvatआधिपत्यम्ādhipatyamस्वाराज्यम्svārājyamपर्येताparyetā

अन्वय

यावत् आदित्यः उत्तरतः उदेता, दक्षिणतः अस्तमेता, [ततः] द्विः तावत् [आदित्यः] ऊर्ध्वम् उदेता, अर्वाक् अस्तमेता, सः तावत् साध्यानाम् एव आधिपत्यम् स्वाराज्यम् पर्येता ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 10

Read the whole section →