Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 16

संस्कृत

Passage 72.1

एष ह वै यज्ञो योऽयं पवते एष ह यन्निदꣳ सर्वं पुनाति । यदेष यन्निदꣳ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥

पदच्छेद

एषःeṣaḥहhaवैvaiयज्ञःyajñaḥयःyaḥअयम्ayamपवतेpavateएषःeṣaḥहhaयन्yanइदम्idamसर्वम्sarvamपुनातिpunātiयत्yatएषःeṣaḥयन्yanइदम्idamसर्वम्sarvamपुनातिpunātiतस्मात्tasmātएषःeṣaḥएवevaयज्ञःyajñaḥतस्यtasyaमनःmanaḥचcaवाक्vākचcaवर्तनीvartanī

अन्वय

यः अयम् पवते, एषः ह वै यज्ञः [अस्ति] । एषः ह यन् इदम् सर्वम् पुनाति । यत् एषः यन् इदम् सर्वम् पुनाति, तस्मात् एषः एव यज्ञः [अस्ति] । तस्य मनः च वाक् च वर्तनी [स्तः] ।

Passage 72.2

तयोरन्यतरां मनसा सꣳस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराꣳस यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ २ ॥

पदच्छेद

तयोःtayoḥअन्यतराम्anyatarāmमनसाmanasāसंस्करोतिsaṃskarotiब्रह्माbrahmāवाचाvācāहोताhotāअध्वर्युःadhvaryuḥउद्गाताudgātāअन्यतराम्anyatarāmसःsaḥयत्रyatraउपाकृतेupākṛteप्रातरनुवाकेprātaranuvākeपुराpurāपरिधानीयायाःparidhānīyāyāḥब्रह्माbrahmāव्यवदतिvyavadati

Passage 72.3

अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञꣳ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥

पदच्छेद

अन्यतराम्anyatarāmएवevaवर्तनीम्vartanīmसंस्करोतिsaṃskarotiहीयतेhīyateअन्यतराanyatarāसःsaḥयथाyathāएकपात्ekapātव्रजन्vrajanरथःrathaḥवाvāएकेनekenaचक्रेणcakreṇaवर्तमानःvartamānaḥरिष्यतिriṣyatiएवम्evamअस्यasyaयज्ञःyajñaḥरिष्यतिriṣyatiयज्ञम्yajñamरिष्यन्तम्riṣyantamयजमानःyajamānaḥअनुरिष्यतिanuriṣyatiसःsaḥइष्ट्वाiṣṭvāपापीयान्pāpīyānभवतिbhavati

अन्वय

[तदा ब्रह्मा] अन्यतराम् एव वर्तनीम् संस्करोति; अन्यतरा हीयते । सः [यज्ञः], यथा एकपाद् [पुरुषः] व्रजन् [रिष्यति], वा एकेन चक्रेण वर्तमानः रथः रिष्यति, एवम् अस्य यज्ञः रिष्यति । रिष्यन्तम् यज्ञम् यजमानः अनुरिष्यति । सः इष्ट्वा पापीयान् भवति ।

Passage 72.4

अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी सꣳस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥

पदच्छेद

अथathaयत्रyatraउपाकृतेupākṛteप्रातरनुवाकेprātaranuvākeनnaपुराpurāपरिधानीयायाःparidhānīyāyāḥब्रह्माbrahmāव्यवदतिvyavadatiउभेubheएवevaवर्तनीvartanīसंस्कुर्वन्तिsaṃskurvantiनnaहीयतेhīyateअन्यतराanyatarā

Passage 72.5

स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ५ ॥

पदच्छेद

सःsaḥयथाyathāउभयपात्ubhayapātव्रजन्vrajanरथःrathaḥवाvāउभाभ्याम्ubhābhyāmचक्राभ्याम्cakrābhyāmवर्तमानःvartamānaḥप्रतितिष्ठतिpratitiṣṭhatiएवम्evamअस्यasyaयज्ञःyajñaḥप्रतितिष्ठतिpratitiṣṭhatiयज्ञम्yajñamप्रतितिष्ठन्तम्pratitiṣṭhantamयजमानःyajamānaḥअनुप्रतितिष्ठतिanupratitiṣṭhatiसःsaḥइष्ट्वाiṣṭvāश्रेयान्śreyānभवतिbhavati

अन्वय

सः [यज्ञः], यथा उभयपाद् [पुरुषः] व्रजन् [प्रतितिष्ठति], वा उभाभ्याम् चक्राभ्याम् वर्तमानः रथः प्रतितिष्ठति, एवम् अस्य यज्ञः प्रतितिष्ठति । प्रतितिष्ठन्तम् यज्ञम् यजमानः अनुप्रतितिष्ठति । सः इष्ट्वा श्रेयान् भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 16

Read the whole section →