Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 1

संस्कृत

Passage 38.1

असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥

पदच्छेद

असौasauवैvaiआदित्यःādityaḥदेवमधुdevamadhuतस्यtasyaद्यौःdyauḥएवevaतिरश्चीनवंशःtiraścīnavaṃśaḥअन्तरिक्षम्antarikṣamअपूपःapūpaḥमरीचयःmarīcayaḥपुत्राःputrāḥ

अन्वय

असौ आदित्यः वा देवमधु [अस्ति] । तस्य द्यौः एव तिरश्चीनवंशः [अस्ति]; अन्तरिक्षम् अपूपः [अस्ति]; मरीचयः पुत्राः [सन्ति] ।

Passage 38.2

तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥

पदच्छेद

तस्यtasyaयेyeप्राञ्चःprāñcaḥरश्मयःraśmayaḥताःtāḥएवevaअस्यasyaप्राच्यःprācyaḥमधुनाड्यःmadhunāḍyaḥऋचःṛcaḥएवevaमधुकृतःmadhukṛtaḥऋग्वेदःṛgvedaḥएवevaपुष्पम्puṣpamताःtāḥअमृताःamṛtāḥआपःāpaḥताःtāḥवैvaiएताःetāḥऋचःṛcaḥ

अन्वय

तस्य ये प्राञ्चः रश्मयः [सन्ति], ताः एव अस्य प्राच्यः मधुनाड्यः [सन्ति] । ऋचः एव मधुकृतः [सन्ति]; ऋग्वेदः एव पुष्पम् [अस्ति]; ताः अमृताः आपः [सन्ति] । ताः वा एताः ऋचः [सन्ति] ।

Passage 38.3

एतमृग्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३ ॥

पदच्छेद

एतम्etamऋग्वेदम्ṛgvedamअभ्यतपन्abhyatapanतस्यtasyaअभितप्तस्यabhitaptasyaयशःyaśaḥतेजःtejaḥइन्द्रियम्indriyamवीर्यम्vīryamअन्नाद्यम्annādyamरसःrasaḥअजायतajāyata

अन्वय

[ताः ऋचः] एतम् ऋग्वेदम् अभ्यतपन् । अभितप्तस्य तस्य यशः तेजः इन्द्रियम् वीर्यम् अन्नाद्यम् [इति] रसः अजायत ।

Passage 38.4

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितꣳरूपम् ॥ ४ ॥

पदच्छेद

तत्tatव्यक्षरत्vyakṣaratतत्tatआदित्यम्ādityamअभितःabhitaḥअश्रयत्aśrayatतत्tatवैvaiएतत्etatयत्yatएतत्etatआदित्यस्यādityasyaरोहितम्rohitamरूपम्rūpam

अन्वय

तत् व्यक्षरत्; तत् आदित्यम् अभितः अश्रयत् । यत् एतत् आदित्यस्य रोहितम् रूपम् [अस्ति], तत् वा एतत् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 1

Read the whole section →