Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 9

संस्कृत

Passage 65.1

प्राप हाचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥

पदच्छेद

प्रापprāpaहhaआचार्यकुलम्ācāryakulamतम्tamआचार्यःācāryaḥअभ्युवादabhyuvādaसत्यकाम३satyakāma3इतिitiभगवःbhagavaḥइतिitiहhaप्रतिशुश्रावpratiśuśrāva

अन्वय

[सः] ह आचार्यकुलम् प्राप । तम् आचार्यः अभ्युवाद—सत्यकाम३ इति । भगवः इति [सत्यकामः] ह प्रतिशुश्राव ।

Passage 65.2

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाꣳस्त्वेव मे कामे ब्रूयात् ॥ २ ॥

पदच्छेद

ब्रह्मवित्brahmavitइवivaवैvaiसोम्यsomyaभासिbhāsiकःkaḥनुnuत्वाtvāअनुशशासanuśaśāsaइतिitiअन्येanyeमनुष्येभ्यःmanuṣyebhyaḥइतिitiहhaप्रतिजज्ञेpratijajñeभगवान्bhagavānतुtuएवevaमेmeकामेkāmeब्रूयात्brūyāt

अन्वय

[आचार्यः आह—] सोम्य, वै [त्वम्] ब्रह्मवित् इव भासि । त्वा कः नु अनुशशास इति । अन्ये मनुष्येभ्यः [माम् अनुशशासुः] इति [सत्यकामः] ह प्रतिजज्ञे । तु भगवान् एव मे कामे ब्रूयात् ।

Passage 65.3

श्रुतꣳ ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥

पदच्छेद

श्रुतम्śrutamहिhiएवevaमेmeभगवद्दृशेभ्यःbhagavaddṛśebhyaḥआचार्यात्ācāryātहhaएवevaविद्याvidyāविदिताviditāसाधिष्ठम्sādhiṣṭhamप्रापतिprāpatiइतिitiतस्मैtasmaiहhaएतत्etatएवevaउवाचuvācaअत्रatraहhaनnaकिञ्चनkiñcanaवीयायvīyāyaइतिitiवीयायvīyāyaइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 9

Read the whole section →