Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 24

संस्कृत

Passage 97.1

स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ १ ॥

पदच्छेद

सःsaḥयःyaḥइदम्idamअविद्वान्avidvānअग्निहोत्रम्agnihotramजुहोतिjuhotiयथाyathāअङ्गारान्aṅgārānअपोह्यapohyaभस्मनिbhasmaniजुहुयात्juhuyātतादृक्tādṛkतत्tatस्यात्syāt

अन्वय

यः सः इदम् अविद्वान् अग्निहोत्रम् जुहोति, [तस्य] तत् तादृक् स्यात्, यथा [कश्चित्] अङ्गारान् अपोह्य भस्मनि जुहुयात् ।

Passage 97.2

अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥

पदच्छेद

अथathaयःyaḥएतत्etatएवम्evamविद्वान्vidvānअग्निहोत्रम्agnihotramजुहोतिjuhotiतस्यtasyaसर्वेषुsarveṣuलोकेषुlokeṣuसर्वेषुsarveṣuभूतेषुbhūteṣuसर्वेषुsarveṣuआत्मसुātmasuहुतम्hutamभवतिbhavati

अन्वय

अथ यः एतत् एवम् विद्वान् अग्निहोत्रम् जुहोति, तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु आत्मसु हुतम् भवति ।

Passage 97.3

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवँहास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥

पदच्छेद

तत्tatयथाyathāईषीकातूलम्īṣīkātūlamअग्नौagnauप्रोतम्protamप्रदूयेतpradūyetaएवम्evamहhaअस्यasyaसर्वेsarveपाप्मानःpāpmānaḥप्रदूयन्तेpradūyanteयःyaḥएतत्etatएवम्evamविद्वान्vidvānअग्निहोत्रम्agnihotramजुहोतिjuhoti

अन्वय

यः एतत् एवम् विद्वान् अग्निहोत्रम् जुहोति, अस्य सर्वे पाप्मानः एवम् ह प्रदूयन्ते, तत् यथा अग्नौ प्रोतम् इषीकातूलम् प्रदूयेत ।

Passage 97.4

तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतँ स्यादिति तदेष श्लोकः ॥ ४ ॥

पदच्छेद

तस्मात्tasmātउuहhaएवंवित्evaṃvitयदिyadiअपिapiचण्डालायcaṇḍālāyaउच्छिष्टम्ucchiṣṭamप्रयच्छेत्prayacchetआत्मनिātmaniहhaएवevaअस्यasyaतत्tatवैश्वानरेvaiśvānareहुतम्hutamस्यात्syātइतिitiतत्tatएषःeṣaḥश्लोकःślokaḥ

अन्वय

तस्मात् उ ह एवम्वित् यदि अपि चण्डालाय उच्छिष्टम् प्रयच्छेत्, अस्य तत् आत्मनि वैश्वानरे ह एव हुतम् स्यात् इति । तत् एषः श्लोकः [भवति] ।

Passage 97.5

यथेह क्षुधिता बाला मातरं पर्युपासत एवँ सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥

पदच्छेद

यथाyathāइहihaक्षुधिताःkṣudhitāḥबालाःbālāḥमातरम्mātaramपर्युपासतेparyupāsateएवम्evamसर्वाणिsarvāṇiभूतानिbhūtāniअग्निहोत्रम्agnihotramउपासतेupāsateइतिitiअग्निहोत्रम्agnihotramउपासतेupāsateइतिiti

अन्वय

यथा इह क्षुधिताः बालाः मातरम् पर्युपासते, एवम् सर्वाणि भूतानि अग्निहोत्रम् उपासते इति; अग्निहोत्रम् उपासते इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 24

Read the whole section →