Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 4

संस्कृत

Passage 117.1

सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

पदच्छेद

सङ्कल्पःsaṅkalpaḥवावvāvaमनसःmanasaḥभूयान्bhūyānयदाyadāवैvaiसङ्कल्पयतेsaṅkalpayateअथathaमनस्यतिmanasyatiअथathaवाचम्vācamईरयतिīrayatiताम्tāmउuनाम्निnāmniईरयतिīrayatiनाम्निnāmniमन्त्राःmantrāḥएकम्ekamभवन्तिbhavantiमन्त्रेषुmantreṣuकर्माणिkarmāṇi

अन्वय

सङ्कल्पः वाव मनसः भूयान् [अस्ति] । यदा वै सङ्कल्पयते, अथ मनस्यति; अथ वाचम् ईरयति; ताम् उ नाम्नि ईरयति । नाम्नि मन्त्राः एकम् भवन्ति; मन्त्रेषु कर्माणि [एकम् भवन्ति] ।

Passage 117.2

तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाँ सङ्कॢप्त्यै वर्षँ सङ्कल्पते वर्षस्य सङ्कॢप्त्या अन्नँ सङ्कल्पतेऽन्नस्य सङ्कॢप्त्यै प्राणाः सङ्कल्पन्ते प्राणानाँ सङ्कॢप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाँ सङ्कॢप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्कॢप्त्यै लोकः सङ्कल्पते लोकस्य सङ्कॢप्त्यै सर्वँ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥

पदच्छेद

तानिtāniहhaवैvaiएतानिetāniसङ्कल्पैकायनानिsaṅkalpaikāyanāniसङ्कल्पात्मकानिsaṅkalpātmakāniसङ्कल्पेsaṅkalpeप्रतिष्ठितानिpratiṣṭhitāniसमकॢपताम्samakḷpatāmद्यावापृथिवीdyāvāpṛthivīसमकल्पेताम्samakalpetāmवायुःvāyuḥचcaआकाशम्ākāśamचcaसमकल्पन्तsamakalpantaअपःapaḥचcaतेजःtejaḥचcaतेषाम्teṣāmसङ्कॢप्त्यैsaṅkḷptyaiवर्षम्varṣamसङ्कल्पतेsaṅkalpateवर्षस्यvarṣasyaसङ्कॢप्त्याsaṅkḷptyāअन्नम्annamसङ्कल्पतेsaṅkalpateअन्नस्यannasyaसङ्कॢप्त्यैsaṅkḷptyaiप्राणाःprāṇāḥसङ्कल्पन्तेsaṅkalpanteप्राणानाम्prāṇānāmसङ्कॢप्त्यैsaṅkḷptyaiमन्त्राःmantrāḥसङ्कल्पन्तेsaṅkalpanteमन्त्राणाम्mantrāṇāmसङ्कॢप्त्यैsaṅkḷptyaiकर्माणिkarmāṇiसङ्कल्पन्तेsaṅkalpanteकर्मणाम्karmaṇāmसङ्कॢप्त्यैsaṅkḷptyaiलोकःlokaḥसङ्कल्पतेsaṅkalpateलोकस्यlokasyaसङ्कॢप्त्यैsaṅkḷptyaiसर्वम्sarvamसङ्कल्पतेsaṅkalpateसःsaḥएषःeṣaḥसङ्कल्पःsaṅkalpaḥसङ्कल्पम्saṅkalpamउपास्स्वupāssvaइतिiti

Passage 117.3

स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्कॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥसङ्कल्पम्saṅkalpamब्रह्मbrahmaइतिitiउपास्तेupāsteसङ्कॢप्तान्saṅkḷptānवैvaiसःsaḥलोकान्lokānध्रुवान्dhruvānध्रुवःdhruvaḥप्रतिष्ठितान्pratiṣṭhitānप्रतिष्ठितःpratiṣṭhitaḥअव्यथमानान्avyathamānānअव्यथमानःavyathamānaḥअभिसिध्यतिabhisidhyatiयावत्yāvatसङ्कल्पस्यsaṅkalpasyaगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥसङ्कल्पम्saṅkalpamब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥसङ्कल्पात्saṅkalpātभूयःbhūyaḥइतिitiसङ्कल्पात्saṅkalpātवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः सङ्कल्पम् ब्रह्म इति उपास्ते, सः ध्रुवः प्रतिष्ठितः अव्यथमानः [सन्] सङ्कॢप्तान् ध्रुवान् प्रतिष्ठितान् अव्यथमानान् लोकान् वै अभिसिध्यति । यावत् सङ्कल्पस्य गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः सङ्कल्पम् ब्रह्म इति उपास्ते । [नारदः], भगवः, सङ्कल्पात् भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], सङ्कल्पात् वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 4

Read the whole section →