Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 6

संस्कृत

Passage 103.1

दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥

पदच्छेद

दध्नःdadhnaḥसोम्यsomyaमथ्यमानस्यmathyamānasyaयःyaḥअणिमाaṇimāसःsaḥऊर्ध्वःūrdhvaḥसमुदीषतिsamudīṣatiतत्tatसर्पिःsarpiḥभवतिbhavati

अन्वय

सोम्य, मथ्यमानस्य दध्नः यः अणिमा [अस्ति], सः ऊर्ध्वः समुदीषति; तत् सर्पिः भवति ।

Passage 103.2

एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥

पदच्छेद

एवम्evamएवevaखलुkhaluसोम्यsomyaअन्नस्यannasyaअश्यमानस्यaśyamānasyaयःyaḥअणिमाaṇimāसःsaḥऊर्ध्वःūrdhvaḥसमुदीषतिsamudīṣatiतत्tatमनःmanaḥभवतिbhavati

अन्वय

सोम्य, एवम् एव खलु अश्यमानस्य अन्नस्य यः अणिमा [अस्ति], सः ऊर्ध्वः समुदीषति; तत् मनः भवति ।

Passage 103.3

अपाँसोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥

पदच्छेद

अपाम्apāmसोम्यsomyaपीयमानानाम्pīyamānānāmयःyaḥअणिमाaṇimāसःsaḥऊर्ध्वःūrdhvaḥसमुदीषतिsamudīṣatiसःsaḥप्राणःprāṇaḥभवतिbhavati

अन्वय

सोम्य, पीयमानानाम् अपाम् यः अणिमा [अस्ति], सः ऊर्ध्वः समुदीषति; सः प्राणः भवति ।

Passage 103.4

तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥ ४ ॥

पदच्छेद

तेजसःtejasaḥसोम्यsomyaअश्यमानस्यaśyamānasyaयःyaḥअणिमाaṇimāसःsaḥऊर्ध्वःūrdhvaḥसमुदीषतिsamudīṣatiसाsāवाक्vākभवतिbhavati

अन्वय

सोम्य, अश्यमानस्य तेजसः यः अणिमा [अस्ति], सः ऊर्ध्वः समुदीषति; सा वाक् भवति ।

Passage 103.5

अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ५ ॥

पदच्छेद

अन्नमयम्annamayamहिhiसोम्यsomyaमनःmanaḥआपोमयःāpomayaḥप्राणःprāṇaḥतेजोमयीtejomayīवाक्vākइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सोम्य, मनः हि अन्नमयम् [अस्ति]; प्राणः आपोमयः [अस्ति]; वाक् तेजोमयी [अस्ति] इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 6

Read the whole section →