Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 9

संस्कृत

Passage 22.1

अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥

पदच्छेद

अथathaखलुkhaluअमुम्amumआदित्यम्ādityamसप्तविधम्saptavidhamसामsāmaउपासीतupāsītaसर्वदाsarvadāसमःsamaḥतेनtenaसामsāmaमाम्māmप्रतिpratiमाम्māmप्रतिpratiइतिitiसर्वेणsarveṇaसमःsamaḥतेनtenaसामsāma

अन्वय

अथ खलु अमुम् आदित्यम् सप्तविधम् साम उपासीत । [सः] सर्वदा समः [अस्ति]; तेन साम [इति उच्यते] । माम् प्रति माम् प्रति इति सर्वेण समः [अस्ति]; तेन साम [इति उच्यते] ।

Passage 22.2

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥

पदच्छेद

तस्मिन्tasminइमानिimāniसर्वाणिsarvāṇiभूतानिbhūtāniअन्वायत्तानिanvāyattāniइतिitiविद्यात्vidyātतस्यtasyaयत्yatपुराpurāउदयात्udayātसःsaḥहिङ्कारःhiṅkāraḥतत्tatअस्यasyaपशवःpaśavaḥअन्वायत्ताःanvāyattāḥतस्मात्tasmātतेteहिङ्कुर्वन्तिhiṅkurvantiहिङ्कारभाजिनःhiṅkārabhājinaḥहिhiएतस्यetasyaसाम्नःsāmnaḥ

अन्वय

इमानि सर्वाणि भूतानि तस्मिन् अन्वायत्तानि [सन्ति] इति विद्यात् । तस्य यत् पुरोदयात् [भवति], सः हिङ्कारः [अस्ति] । अस्य पशवः तत् अन्वायत्ताः [सन्ति] । तस्मात् ते हिङ्कुर्वन्ति; हि एतस्य साम्नः हिङ्कारभाजिनः [सन्ति] ।

Passage 22.3

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या३ अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशꣳसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ ३ ॥

पदच्छेद

अथathaयत्yatप्रथमोदितेprathamoditeसःsaḥप्रस्तावःprastāvaḥतत्tatअस्यasyaमनुष्याःmanuṣyāḥअन्वायत्ताःanvāyattāḥतस्मात्tasmātतेteप्रस्तुतिकामाःprastutikāmāḥप्रशंसाकामाःpraśaṃsākāmāḥप्रस्तावभाजिनःprastāvabhājinaḥहिhiएतस्यetasyaसाम्नःsāmnaḥ

अन्वय

अथ यत् प्रथमोदिते [भवति], सः प्रस्तावः [अस्ति] । अस्य मनुष्याः तत् अन्वायत्ताः [सन्ति] । तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः [सन्ति]; हि एतस्य साम्नः प्रस्तावभाजिनः [सन्ति] ।

Passage 22.4

अथ यत्सङ्गववेलायाꣳ स आदिस्तदस्य वयाꣳस्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ ४ ॥

पदच्छेद

अथathaयत्yatसङ्गववेलायाम्saṅgavavelāyāmसःsaḥआदिःādiḥतत्tatअस्यasyaवयांसिvayāṃsiअन्वायत्तानिanvāyattāniतस्मात्tasmātतानिtāniअन्तरिक्षेantarikṣeअनारम्बणानिanārambaṇāniआदायādāyaआत्मानम्ātmānamपरिपतन्तिparipatantiआदिभाजीनिādibhājīniहिhiएतस्यetasyaसाम्नःsāmnaḥ

अन्वय

अथ यत् सङ्गववेलायाम् [भवति], सः आदिः [अस्ति] । अस्य वयांसि तत् अन्वायत्तानि [सन्ति] । तस्मात् तानि अनारम्बणानि आत्मानम् आदाय अन्तरिक्षे परिपतन्ति; हि एतस्य साम्नः आदिभाजीनि [सन्ति] ।

Passage 22.5

अथ यत्संप्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥

पदच्छेद

अथathaयत्yatसम्प्रतिsampratiमध्यन्दिनेmadhyandineसःsaḥउद्गीथःudgīthaḥतत्tatअस्यasyaदेवाःdevāḥअन्वायत्ताःanvāyattāḥतस्मात्tasmātतेteसत्तमाःsattamāḥप्राजापत्यानाम्prājāpatyānāmउद्गीथभाजिनःudgīthabhājinaḥहिhiएतस्यetasyaसाम्नःsāmnaḥ

अन्वय

अथ यत् संप्रति मध्यन्दिने [भवति], सः उद्गीथः [अस्ति] । अस्य देवाः तत् अन्वायत्ताः [सन्ति] । तस्मात् ते प्राजापत्यानाम् सत्तमाः [सन्ति]; हि एतस्य साम्नः उद्गीथभाजिनः [सन्ति] ।

Passage 22.6

अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥

पदच्छेद

अथathaयत्yatऊर्ध्वम्ūrdhvamमध्यन्दिनात्madhyandinātप्राक्prākअपराह्णात्aparāhṇātसःsaḥप्रतिहारःpratihāraḥतत्tatअस्यasyaगर्भाःgarbhāḥअन्वायत्ताःanvāyattāḥतस्मात्tasmātतेteप्रतिहृताःpratihṛtāḥनnaअवपद्यन्तेavapadyanteप्रतिहारभाजिनःpratihārabhājinaḥहिhiएतस्यetasyaसाम्नःsāmnaḥ

अन्वय

अथ यत् मध्यन्दिनात् ऊर्ध्वम् अपराह्णात् प्राक् [भवति], सः प्रतिहारः [अस्ति] । अस्य गर्भाः तत् अन्वायत्ताः [सन्ति] । तस्मात् ते प्रतिहृताः न अवपद्यन्ते; हि एतस्य साम्नः प्रतिहारभाजिनः [सन्ति] ।

Passage 22.7

अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षꣳ श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥

पदच्छेद

अथathaयत्yatऊर्ध्वम्ūrdhvamअपराह्णात्aparāhṇātप्राक्prākअस्तमयात्astamayātसःsaḥउपद्रवःupadravaḥतत्tatअस्यasyaआरण्याःāraṇyāḥअन्वायत्ताःanvāyattāḥतस्मात्tasmātतेteपुरुषम्puruṣamदृष्ट्वाdṛṣṭvāकक्षम्kakṣamश्वभ्रम्śvabhramइतिitiउपद्रवन्तिupadravantiउपद्रवभाजिनःupadravabhājinaḥहिhiएतस्यetasyaसाम्नःsāmnaḥ

अन्वय

अथ यत् अपराह्णात् ऊर्ध्वम् अस्तमयात् प्राक् [भवति], सः उपद्रवः [अस्ति] । अस्य आरण्याः तत् अन्वायत्ताः [सन्ति] । तस्मात् ते पुरुषम् दृष्ट्वा कक्षम् श्वभ्रम् इति उपद्रवन्ति; हि एतस्य साम्नः उपद्रवभाजिनः [सन्ति] ।

Passage 22.8

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यꣳ सप्तविधꣳ सामोपास्ते ॥ ८ ॥

पदच्छेद

अथathaयत्yatप्रथमास्तमितेprathamāstamiteतत्tatनिधनम्nidhanamतत्tatअस्यasyaपितरःpitaraḥअन्वायत्ताःanvāyattāḥतस्मात्tasmātतान्tānनिदधतिnidadhatiनिधनभाजिनःnidhanabhājinaḥहिhiएतस्यetasyaसाम्नःsāmnaḥएवम्evamखलुkhaluअमुम्amumआदित्यम्ādityamसप्तविधम्saptavidhamसामsāmaउपास्तेupāste

अन्वय

अथ यत् प्रथमास्तमिते [भवति], तत् निधनम् [अस्ति] । अस्य पितरः तत् अन्वायत्ताः [सन्ति] । तस्मात् तान् निदधति; हि एतस्य साम्नः निधनभाजिनः [सन्ति] । एवम् खलु अमुम् आदित्यम् सप्तविधम् साम उपास्ते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 9

Read the whole section →