Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 11

संस्कृत

Passage 48.1

अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥

पदच्छेद

अथathaततःtataḥऊर्ध्वःūrdhvaḥउदेत्यudetyaनnaएवevaउदेताudetāनnaअस्तमेताastametāएकलःekalaḥएवevaमध्येmadhyeस्थाताsthātāतत्tatएषःeṣaḥश्लोकःślokaḥ

अन्वय

अथ ततः ऊर्ध्वः उदेत्य [आदित्यः] न एव उदेता, न अस्तमेता; एकलः एव मध्ये स्थाता । तत् एषः श्लोकः [अस्ति] ।

Passage 48.2

न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहꣳसत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥

पदच्छेद

नnaवैvaiतत्रtatraनnaनिम्लोचnimlocaनnaउदियायudiyāyaकदाचनkadācanaदेवाःdevāḥतेनtenaअहम्ahamसत्येनsatyenaमाmāविराधिषिvirādhiṣiब्रह्मणाbrahmaṇāइतिiti

Passage 48.3

न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥

पदच्छेद

नnaहhaवैvaiअस्मैasmaiउदेतिudetiनnaनिम्लोचतिnimlocatiसकृत्sakṛtदिवाdivāहhaएवevaअस्मैasmaiभवतिbhavatiयःyaḥएताम्etāmएवम्evamब्रह्मोपनिषदम्brahmopaniṣadamवेदveda

अन्वय

यः एताम् ब्रह्मोपनिषदम् एवम् वेद, अस्मै ह वा [आदित्यः] न उदेति, न निम्लोचति; अस्मै ह एव सकृद्दिवा भवति ।

Passage 48.4

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥

पदच्छेद

तत्tatहhaएतत्etatब्रह्माbrahmāप्रजापतयेprajāpatayeउवाचuvācaप्रजापतिःprajāpatiḥमनवेmanaveमनुःmanuḥप्रजाभ्यःprajābhyaḥतत्tatहhaएतत्etatउद्दालकायuddālakāyaआरुणयेāruṇayeज्येष्ठायjyeṣṭhāyaपुत्रायputrāyaपिताpitāब्रह्मbrahmaप्रोवाचprovāca

अन्वय

ब्रह्मा ह एतत् तत् प्रजापतये उवाच । प्रजापतिः मनवे [उवाच]; मनुः प्रजाभ्यः [उवाच] । पिता ह एतत् तत् ब्रह्म ज्येष्ठाय पुत्राय उद्दालकाय आरुणये प्रोवाच ।

Passage 48.5

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ५ ॥

पदच्छेद

इदम्idamवावvāvaतत्tatज्येष्ठायjyeṣṭhāyaपुत्रायputrāyaपिताpitāब्रह्मbrahmaप्रब्रूयात्prabrūyātप्रणाय्यायpraṇāyyāyaवाvāअन्तेवासिनेantevāsine

अन्वय

पिता इदम् तत् ब्रह्म वाव ज्येष्ठाय पुत्राय वा प्रणाय्याय अन्तेवासिने प्रब्रूयात् ।

Passage 48.6

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥

पदच्छेद

नnaअन्यस्मैanyasmaiकस्मैचनkasmaicanaयदिyadiअपिapiअस्मैasmaiइमाम्imāmअद्भिःadbhiḥपरिगृहीताम्parigṛhītāmधनस्यdhanasyaपूर्णाम्pūrṇāmदद्यात्dadyātएतत्etatएवevaततःtataḥभूयःbhūyaḥइतिitiएतत्etatएवevaततःtataḥभूयःbhūyaḥइतिiti

अन्वय

अन्यस्मै कस्मैचन न [प्रब्रूयात्] । यदि अपि अस्मै इमाम् अद्भिः परिगृहीताम् धनस्य पूर्णाम् [पृथिवीम्] दद्यात्, ततः एतत् एव भूयः इति; ततः एतत् एव भूयः इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 11

Read the whole section →