Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 8

संस्कृत

Passage 64.1

मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥

पदच्छेद

मद्गुःmadguḥतेteपादम्pādamवक्ताvaktāइतिitiसःsaḥहhaश्वःśvaḥभूतेbhūteगाःgāḥअभिप्रस्थापयाम्abhiprasthāpayāmचकारcakāraताःtāḥयत्रyatraअभिसायम्abhisāyamबभूवुःbabhūvuḥतत्रtatraअग्निम्agnimउपसमाधायupasamādhāyaगाःgāḥउपरुध्यuparudhyaसमिधम्samidhamआधायādhāyaपश्चात्paścātअग्नेःagneḥप्राङ्prāṅउपोपविवेशupopaviveśa

अन्वय

[हंसः आह—] मद्गुः ते पादम् वक्ता इति । सः ह श्वोभूते [अहनि] गाः अभिप्रस्थापयाञ्चकार । ताः यत्र अभिसायम् बभूवुः, तत्र अग्निम् उपसमाधाय गाः उपरुध्य समिधम् आधाय अग्नेः पश्चात् प्राङ् उपोपविवेश ।

Passage 64.2

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

पदच्छेद

तम्tamमद्गुःmadguḥउपनिपत्यupanipatyaअभ्युवादabhyuvādaसत्यकाम३satyakāma3इतिitiभगवःbhagavaḥइतिitiहhaप्रतिशुश्रावpratiśuśrāva

अन्वय

तम् मद्गुः उपनिपत्य अभ्युवाद—सत्यकाम३ इति । भगवः इति [सत्यकामः] ह प्रतिशुश्राव ।

Passage 64.3

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥

पदच्छेद

ब्रह्मणःbrahmaṇaḥसोम्यsomyaतेteपादम्pādamब्रवाणिbravāṇiइतिitiब्रवीतुbravītuमेmeभगवान्bhagavānइतिitiतस्मैtasmaiहhaउवाचuvācaप्राणःprāṇaḥकलाkalāचक्षुःcakṣuḥकलाkalāश्रोत्रम्śrotramकलाkalāमनःmanaḥकलाkalāएषःeṣaḥवैvaiसोम्यsomyaचतुष्कलःcatuṣkalaḥपादःpādaḥब्रह्मणःbrahmaṇaḥआयतनवान्āyatanavānनामnāma

अन्वय

[मद्गुः आह—] सोम्य, ब्रह्मणः ते पादम् ब्रवाणि इति । [सत्यकामः आह—] भगवान् मे ब्रवीतु इति । [मद्गुः] तस्मै ह उवाच—प्राणः कला [अस्ति]; चक्षुः कला [अस्ति]; श्रोत्रम् कला [अस्ति]; मनः कला [अस्ति] । सोम्य, वै एषः ब्रह्मणः चतुष्कलः पादः आयतनवान् नाम [अस्ति] ।

Passage 64.4

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिꣳल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥

पदच्छेद

सःsaḥयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥआयतनवान्āyatanavānइतिitiउपास्तेupāsteआयतनवान्āyatanavānअस्मिन्asminलोकेlokeभवतिbhavatiआयतनवतःāyatanavataḥहhaलोकान्lokānजयतिjayatiयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥआयतनवान्āyatanavānइतिitiउपास्तेupāste

अन्वय

यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् आयतनवान् इति उपास्ते, सः अस्मिन् लोके आयतनवान् भवति । यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् आयतनवान् इति उपास्ते, [सः] ह आयतनवतः लोकान् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 8

Read the whole section →