Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 5

संस्कृत

Passage 18.1

ऋतुषु पञ्चविधꣳसामोपासीत वसन्तो हिङ्कारः ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ १ ॥

पदच्छेद

ऋतुषुṛtuṣuपञ्चविधम्pañcavidhamसामsāmaउपासीतupāsītaवसन्तःvasantaḥहिङ्कारःhiṅkāraḥग्रीष्मःgrīṣmaḥप्रस्तावःprastāvaḥवर्षाःvarṣāḥउद्गीथःudgīthaḥशरत्śaratप्रतिहारःpratihāraḥहेमन्तःhemantaḥनिधनम्nidhanam

अन्वय

ऋतुषु पञ्चविधम् साम उपासीत । वसन्तः हिङ्कारः [अस्ति]; ग्रीष्मः प्रस्तावः [अस्ति]; वर्षाः उद्गीथः [अस्ति]; शरत् प्रतिहारः [अस्ति]; हेमन्तः निधनम् [अस्ति] ।

Passage 18.2

कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २ ॥

पदच्छेद

कल्पन्तेkalpanteहhaअस्मैasmaiऋतवःṛtavaḥऋतुमान्ṛtumānभवतिbhavatiयःyaḥएतत्etatएवम्evamविद्वान्vidvānऋतुषुṛtuṣuपञ्चविधम्pañcavidhamसामsāmaउपास्तेupāste

अन्वय

यः एतत् एवम् विद्वान् ऋतुषु पञ्चविधम् साम उपास्ते, अस्मै ऋतवः ह कल्पन्ते; [सः] ऋतुमान् भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 5

Read the whole section →