Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 23

संस्कृत

Passage 36.1

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मसꣳस्थोऽमृतत्वमेति ॥ १ ॥

पदच्छेद

त्रयःtrayaḥधर्मस्कन्धाःdharmaskandhāḥयज्ञःyajñaḥअध्ययनम्adhyayanamदानम्dānamइतिitiप्रथमःprathamaḥतपःtapaḥएवevaद्वितीयःdvitīyaḥब्रह्मचारीbrahmacārīआचार्यकुलवासीācāryakulavāsīतृतीयःtṛtīyaḥअत्यन्तम्atyantamआत्मानम्ātmānamआचार्यकुलेācāryakuleअवसादयन्avasādayanसर्वेsarveएतेeteपुण्यलोकाःpuṇyalokāḥभवन्तिbhavantiब्रह्मसंस्थःbrahmasaṃsthaḥअमृतत्वम्amṛtatvamएतिeti

अन्वय

त्रयः धर्मस्कन्धाः [सन्ति] । यज्ञः अध्ययनम् दानम् इति प्रथमः [अस्ति] । तपः एव द्वितीयः [अस्ति] । अत्यन्तम् आत्मानम् आचार्यकुले अवसादयन् आचार्यकुलवासी ब्रह्मचारी तृतीयः [अस्ति] । सर्वे एते पुण्यलोकाः भवन्ति; ब्रह्मसंस्थः अमृतत्वम् एति ।

Passage 36.2

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त भूर्भुवः स्वरिति ॥ २ ॥

पदच्छेद

प्रजापतिःprajāpatiḥलोकान्lokānअभ्यतपत्abhyatapatतेभ्यःtebhyaḥअभितप्तेभ्यःabhitaptebhyaḥत्रयीtrayīविद्याvidyāसम्प्रास्रवत्samprāsravatताम्tāmअभ्यतपत्abhyatapatतस्याःtasyāḥअभितप्तायाःabhitaptāyāḥएतानिetāniअक्षराणिakṣarāṇiसंप्रास्रवन्तsaṃprāsravantaभूःbhūḥभुवःbhuvaḥस्वःsvaḥइतिiti

अन्वय

प्रजापतिः लोकान् अभ्यतपत् । अभितप्तेभ्यः तेभ्यः त्रयी विद्या संप्रास्रवत् । ताम् अभ्यतपत् । अभितप्तायाः तस्याः एतानि अक्षराणि संप्रास्रवन्त-भूः भुवः स्वः इति ।

Passage 36.3

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदꣳसर्वमोंकार एवेदꣳ सर्वम् ॥ ३ ॥

पदच्छेद

तानिtāniअभ्यतपत्abhyatapatतेभ्यःtebhyaḥअभितप्तेभ्यःabhitaptebhyaḥॐकारःoṃkāraḥसम्प्रास्रवत्samprāsravatतत्tatयथाyathāशङ्कुनाśaṅkunāसर्वाणिsarvāṇiपर्णानिparṇāniसन्तृण्णानिsantṛṇṇāniएवम्evamॐकारेणoṃkāreṇaसर्वाsarvāवाक्vākसन्तृण्णाsantṛṇṇāॐकारःoṃkāraḥएवevaइदम्idamसर्वम्sarvamॐकारःoṃkāraḥएवevaइदम्idamसर्वम्sarvam

अन्वय

तानि अभ्यतपत् । अभितप्तेभ्यः तेभ्यः ॐकारः संप्रास्रवत् । तत् यथा शङ्कुना सर्वाणि पर्णानि संतृण्णानि [सन्ति], एवम् ॐकारेण सर्वा वाक् संतृण्णा [अस्ति] । ॐकारः एव इदम् सर्वम् [अस्ति]; ॐकारः एव इदम् सर्वम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 23

Read the whole section →