Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 14

संस्कृत

Passage 51.1

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिꣳल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥

पदच्छेद

सर्वम्sarvamखलुkhaluइदम्idamब्रह्मbrahmaतज्जलान्tajjalānइतिitiशान्तःśāntaḥउपासीतupāsītaअथathaखलुkhaluक्रतुमयःkratumayaḥपुरुषःpuruṣaḥयथाक्रतुःyathākratuḥअस्मिन्asminलोकेlokeपुरुषःpuruṣaḥभवतिbhavatiतथाtathāइतःitaḥप्रेत्यpretyaभवतिbhavatiसःsaḥक्रतुम्kratumकुर्वीतkurvīta

अन्वय

इदम् सर्वम् खलु ब्रह्म [अस्ति] । [साधकः] शान्तः तज्जलान् इति उपासीत । अथ खलु पुरुषः क्रतुमयः [अस्ति] । अस्मिन् लोके पुरुषः यथाक्रतुः भवति, इतः प्रेत्य तथा भवति । सः क्रतुम् कुर्वीत ।

Passage 51.2

मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ २ ॥

पदच्छेद

मनोमयःmanomayaḥप्राणशरीरःprāṇaśarīraḥभारूपःbhārūpaḥसत्यसङ्कल्पःsatyasaṅkalpaḥआकाशात्माākāśātmāसर्वकर्माsarvakarmāसर्वकामःsarvakāmaḥसर्वगन्धःsarvagandhaḥसर्वरसःsarvarasaḥसर्वम्sarvamइदम्idamअभ्यात्तःabhyāttaḥअवाकीavākīअनादरःanādaraḥ

Passage 51.3

एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥

पदच्छेद

एषःeṣaḥमेmeआत्माātmāअन्तर्हृदयेantarhṛdayeअणीयान्aṇīyānव्रीहेःvrīheḥवाvāयवात्yavātवाvāसर्षपात्sarṣapātवाvāश्यामाकात्śyāmākātवाvāश्यामाकतण्डुलात्śyāmākataṇḍulātवाvāएषःeṣaḥमेmeआत्माātmāअन्तर्हृदयेantarhṛdayeज्यायान्jyāyānपृथिव्याःpṛthivyāḥज्यायान्jyāyānअन्तरिक्षात्antarikṣātज्यायान्jyāyānदिवःdivaḥज्यायान्jyāyānएभ्यःebhyaḥलोकेभ्यःlokebhyaḥ

अन्वय

एषः मे आत्मा अन्तः हृदये व्रीहेः वा यवात् वा सर्षपात् वा श्यामाकात् वा श्यामाकतण्डुलात् वा अणीयान् [अस्ति] । एषः मे आत्मा अन्तः हृदये पृथिव्याः ज्यायान्, अन्तरिक्षात् ज्यायान्, दिवः ज्यायान्, एभ्यः लोकेभ्यः ज्यायान् [अस्ति] ।

Passage 51.4

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥

पदच्छेद

सर्वकर्माsarvakarmāसर्वकामःsarvakāmaḥसर्वगन्धःsarvagandhaḥसर्वरसःsarvarasaḥसर्वम्sarvamइदम्idamअभ्यात्तःabhyāttaḥअवाकीavākīअनादरःanādaraḥएषःeṣaḥमेmeआत्माātmāअन्तर्हृदयेantarhṛdayeएतत्etatब्रह्मbrahmaएतम्etamइतःitaḥप्रेत्यpretyaअभिसम्भविताabhisambhavitāअस्मिasmiइतिitiयस्यyasyaस्यात्syātअद्धाaddhāनnaविचिकित्साvicikitsāअस्तिastiइतिitiहhaस्मsmaआहāhaशाण्डिल्यःśāṇḍilyaḥशाण्डिल्यःśāṇḍilyaḥ

अन्वय

एषः मे आत्मा अन्तः हृदये सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यात्तः अवाकी अनादरः [अस्ति] । एतत् ब्रह्म [अस्ति] । “एतम् इतः प्रेत्य अभिसंभविता अस्मि” इति यस्य [निश्चयः] स्यात्, [यस्य] अद्धा न विचिकित्सा अस्ति, [सः तथैव प्रतिपद्यते] इति ह स्म शाण्डिल्यः शाण्डिल्यः आह ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 14

Read the whole section →