Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 13

संस्कृत

Passage 110.1

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तँ होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥

पदच्छेद

लवणम्lavaṇamएतत्etatउदकेudakeअवधायavadhāyaअथathaमाmāप्रातःprātaḥउपसीदथाःupasīdathāḥइतिitiसःsaḥहhaतथाtathāचकारcakāraतम्tamहhaउवाचuvācaयत्yatदोषाdoṣāलवणम्lavaṇamउदकेudakeअवाधाःavādhāḥअङ्गaṅgaतत्tatआहरāharaइतिitiतत्tatहhaअवमृश्यavamṛśyaनnaविवेदviveda

अन्वय

[पिता], एतत् लवणम् उदके अवधाय अथ प्रातः मा उपसीदथाः इति [उवाच] । सः ह तथा चकार । [पिता] तम् ह, अङ्ग, यत् लवणम् दोषा उदके अवाधाः, तत् आहर इति उवाच । तत् ह अवमृश्य [सः] न विवेद ।

Passage 110.2

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत्संवर्तते तँ होवाचात्र वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ २ ॥

पदच्छेद

यथाyathāविलीनम्vilīnamएवevaअङ्गaṅgaअस्यasyaअन्तात्antātआचामācāmaइतिitiकथम्kathamइतिitiलवणम्lavaṇamइतिitiमध्यात्madhyātआचामācāmaइतिitiकथम्kathamइतिitiलवणम्lavaṇamइतिitiअन्तात्antātआचामācāmaइतिitiकथम्kathamइतिitiलवणम्lavaṇamइतिitiअभिप्रास्यabhiprāsyaएतत्etatअथathaमाmāउपसीदथाःupasīdathāḥइतिitiतत्tatहhaतथाtathāचकारcakāraतत्tatशश्वत्śaśvatसंवर्ततेsaṃvartateतम्tamहhaउवाचuvācaअत्रatraवावvāvaकिलkilaतत्tatसोम्यsomyaनnaनिभालयसेnibhālayaseअत्रatraएवevaकिलkilaइतिiti

अन्वय

[त्वम्] यथा विलीनम् एव [लवणम् न वेत्थ, तथापि तत् विद्यते] । [पिता], अङ्ग, अस्य [उदकस्य] अन्तात् आचाम इति [उवाच]; कथम् इति [पप्रच्छ]; [पुत्रः], लवणम् इति [उवाच] । [पिता], मध्यात् आचाम इति [उवाच]; कथम् इति [पप्रच्छ]; [पुत्रः], लवणम् इति [उवाच] । [पिता], अन्तात् आचाम इति [उवाच]; कथम् इति [पप्रच्छ]; [पुत्रः], लवणम् इति [उवाच] । [पिता], एतत् [उदकम्] अभिप्रास्य अथ मा उपसीदथाः इति [उवाच] । तत् ह [पुत्रः] तथा चकार । [पुत्रः], तत् [लवणम्] शश्वत् संवर्तते इति [उवाच] । [पिता] तम् ह, सोम्य, अत्र वाव किल तत् [सत्] न निभालयसे; अत्र एव किल [विद्यते] इति उवाच ।

Passage 110.3

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअणिमाaṇimāएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सः यः एषः अणिमा [अस्ति], इदम् सर्वम् एतदात्म्यम् [अस्ति]; तत् सत्यम् [अस्ति]; सः आत्मा [अस्ति]; श्वेतकेतो, तत् त्वम् असि इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 13

Read the whole section →