Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 21

संस्कृत

Passage 94.1

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥

पदच्छेद

अथathaयाम्yāmतृतीयाम्tṛtīyāmजुहुयात्juhuyātताम्tāmजुहुयात्juhuyātअपानायapānāyaस्वाहाsvāhāइतिitiअपानःapānaḥतृप्यतिtṛpyati

अन्वय

अथ [सः] याम् तृतीयाम् [आहुतिम्] जुहुयात्, ताम् अपानाय स्वाहा इति जुहुयात् । अपानः तृप्यति ।

Passage 94.2

अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥

पदच्छेद

अपानेapāneतृप्यतिtṛpyatiवाक्vākतृप्यतिtṛpyatiवाचिvāciतृप्यन्त्याम्tṛpyantyāmअग्निःagniḥतृप्यतिtṛpyatiअग्नौagnauतृप्यतिtṛpyatiपृथिवीpṛthivīतृप्यतिtṛpyatiपृथिव्याम्pṛthivyāmतृप्यन्त्याम्tṛpyantyāmयत्yatकिम्kimचcaपृथिवीpṛthivīचcaअग्निःagniḥचcaअधितिष्ठतःadhitiṣṭhataḥतत्tatतृप्यतिtṛpyatiतस्यtasyaअनुतृप्तिम्anutṛptimतृप्यतिtṛpyatiप्रजयाprajayāपशुभिःpaśubhiḥअन्नाद्येनannādyenaतेजसाtejasāब्रह्मवर्चसेनbrahmavarcasenaइतिiti

अन्वय

अपाने तृप्यति वाक् तृप्यति; वाचि तृप्यन्त्याम् अग्निः तृप्यति; अग्नौ तृप्यति पृथिवी तृप्यति; पृथिव्याम् तृप्यन्त्याम् पृथिवी च अग्निः च यत् किञ्च अधितिष्ठतः, तत् तृप्यति । तस्य तृप्तिम् अनु [सः] प्रजया पशुभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 21

Read the whole section →