Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 16

संस्कृत

Passage 89.1

अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वँरयिमान्पुष्टिमानसि ॥ १ ॥

पदच्छेद

अथathaहhaउवाचuvācaबुडिलम्buḍilamआश्वतराश्विम्āśvatarāśvimवैयाघ्रपद्यvaiyāghrapadyaकम्kamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseइतिitiअपःapaḥएवevaभगवःbhagavaḥराजन्rājanइतिitiहhaउवाचuvācaएषःeṣaḥवैvaiरयिःrayiḥआत्माātmāवैश्वानरःvaiśvānaraḥयम्yamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseतस्मात्tasmātत्वम्tvamरयिमान्rayimānपुष्टिमान्puṣṭimānअसिasi

अन्वय

अथ [सः] बुडिलम् आश्वतराश्विम् ह, वैयाघ्रपद्य, त्वम् कम् आत्मानम् उपास्से इति उवाच । [सः], भगवः राजन्, अपः एव [उपासे] इति ह उवाच । [सः], त्वम् यम् आत्मानम् उपास्से, एषः वै रयिः आत्मा वैश्वानरः [अस्ति]; तस्मात् त्वम् रयिमान् पुष्टिमान् असि [इति उवाच] ।

Passage 89.2

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ २ ॥

पदच्छेद

अत्सिatsiअन्नम्annamपश्यसिpaśyasiप्रियम्priyamअत्तिattiअन्नम्annamपश्यतिpaśyatiप्रियम्priyamभवतिbhavatiअस्यasyaब्रह्मवर्चसम्brahmavarcasamकुलेkuleयःyaḥएतम्etamएवम्evamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramउपास्तेupāsteबस्तिःbastiḥतुtuएषःeṣaḥआत्मनःātmanaḥइतिitiहhaउवाचuvācaबस्तिःbastiḥतेteव्यभेत्स्यत्vyabhetsyatयत्yatमाम्māmनnaआगमिष्यःāgamiṣyaḥइतिiti

अन्वय

[त्वम्] अन्नम् अत्सि, प्रियम् पश्यसि । यः एतम् आत्मानम् वैश्वानरम् एवम् उपास्ते, [सः] अन्नम् अत्ति, प्रियम् पश्यति; अस्य कुले ब्रह्मवर्चसम् भवति । एषः तु आत्मनः बस्तिः [अस्ति]; यत् माम् न आगमिष्यः, ते बस्तिः व्यभेत्स्यत् इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 16

Read the whole section →