Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 4

संस्कृत

Passage 4.1

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥

पदच्छेद

ओम्omइतिitiएतत्etatअक्षरम्akṣaramउद्गीथम्udgīthamउपासीतupāsītaओम्omइतिitiहिhiउद्गायतिudgāyatiतस्यtasyaउपव्याख्यानम्upavyākhyānam

अन्वय

ओम् इति एतत् अक्षरम् उद्गीथम् उपासीत । हि ओम् इति उद्गायति । तस्य उपव्याख्यानम् [इदम् अस्ति] ।

Passage 4.2

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳस्ते छन्दोभिरच्छादयन्यदेभिरच्छादयꣳस्तच्छन्दसां छन्दस्त्वम् ॥ २ ॥

पदच्छेद

देवाःdevāḥवैvaiमृत्योःmṛtyoḥबिभ्यतःbibhyataḥत्रयीम्trayīmविद्याम्vidyāmप्राविशन्prāviśanतेteछन्दोभिःchandobhiḥअच्छादयन्acchādayanयत्yatएभिःebhiḥअच्छादयन्acchādayanतत्tatछन्दसाम्chandasāmछन्दस्त्वम्chandastvam

अन्वय

देवाः वै मृत्योः बिभ्यतः त्रयीम् विद्याम् प्राविशन् । ते छन्दोभिः [आत्मानम्] अच्छादयन् । यत् एभिः अच्छादयन्, तत् छन्दसाम् छन्दस्त्वम् [अस्ति] ।

Passage 4.3

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ ३ ॥

पदच्छेद

तान्tānउuतत्रtatraमृत्युःmṛtyuḥयथाyathāमत्स्यम्matsyamउदकेudakeपरिपश्येत्paripaśyetएवम्evamपर्यपश्यत्paryapaśyatऋचिṛciसाम्निsāmniयजुषिyajuṣiतेteनुnuविदित्वाviditvāऊर्ध्वाःūrdhvāḥऋचःṛcaḥसाम्नःsāmnaḥयजुषःyajuṣaḥस्वरम्svaramएवevaप्राविशन्prāviśan

अन्वय

तान् उ तत्र मृत्युः यथा मत्स्यम् उदके परिपश्येत्, एवम् ऋचि साम्नि यजुषि पर्यपश्यत् । ते नु विदित्वा ऋचः साम्नः यजुषः ऊर्ध्वाः स्वरम् एव प्राविशन् ।

Passage 4.4

यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ ४ ॥

पदच्छेद

यदाyadāवैvaiऋचम्ṛcamआप्नोतिāpnotiओम्omइतिitiएवevaअतिस्वरतिatisvaratiएवम्evamसामsāmaएवम्evamयजुःyajuḥएषःeṣaḥउuस्वरःsvaraḥयत्yatएतत्etatअक्षरम्akṣaramएतत्etatअमृतम्amṛtamअभयम्abhayamतत्tatप्रविश्यpraviśyaदेवाःdevāḥअमृताःamṛtāḥअभयाःabhayāḥअभवन्abhavan

अन्वय

यदा वै ऋचम् आप्नोति, ओम् इति एव अतिस्वरति; एवम् साम [आप्नोति, अतिस्वरति]; एवम् यजुः [आप्नोति, अतिस्वरति] । यत् एतत् अक्षरम् [अस्ति], एषः उ स्वरः [अस्ति] । एतत् अमृतम् अभयम् [अस्ति] । तत् प्रविश्य देवाः अमृताः अभयाः अभवन् ।

Passage 4.5

स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ ५ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamविद्वान्vidvānअक्षरम्akṣaramप्रणौतिpraṇautiएतत्etatएवevaअक्षरम्akṣaramस्वरम्svaramअमृतम्amṛtamअभयम्abhayamप्रविशतिpraviśatiतत्tatप्रविश्यpraviśyaयत्yatअमृताःamṛtāḥदेवाःdevāḥतत्tatअमृतःamṛtaḥभवतिbhavati

अन्वय

यः एतत् एवम् विद्वान् अक्षरम् प्रणौति, सः एतत् एव अक्षरम् स्वरम् अमृतम् अभयम् प्रविशति । तत् प्रविश्य [सः] यत् [यथा] अमृताः देवाः [अभवन्], तत् [तथा] अमृतः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 4

Read the whole section →