Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 25

संस्कृत

Passage 138.1

स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदँ सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदँ सर्वमिति ॥ १ ॥

पदच्छेद

सःsaḥएवevaअधस्तात्adhastātसःsaḥउपरिष्टात्upariṣṭātसःsaḥपश्चात्paścātसःsaḥपुरस्तात्purastātसःsaḥदक्षिणतःdakṣiṇataḥसःsaḥउत्तरतःuttarataḥसःsaḥएवevaइदम्idamसर्वम्sarvamइतिitiअथathaअतःataḥअहङ्कारादेशःahaṅkārādeśaḥएवevaअहम्ahamएवevaअधस्तात्adhastātअहम्ahamउपरिष्टात्upariṣṭātअहम्ahamपश्चात्paścātअहम्ahamपुरस्तात्purastātअहम्ahamदक्षिणतःdakṣiṇataḥअहम्ahamउत्तरतःuttarataḥअहम्ahamएवevaइदम्idamसर्वम्sarvamइतिiti

अन्वय

सः एव अधस्तात् [अस्ति], सः उपरिष्टात् [अस्ति], सः पश्चात् [अस्ति], सः पुरस्तात् [अस्ति], सः दक्षिणतः [अस्ति], सः उत्तरतः [अस्ति]; सः एव इदम् सर्वम् [अस्ति] इति । अथ अतः अहङ्कारादेशः एव [भवति]—अहम् एव अधस्तात् [अस्मि], अहम् उपरिष्टात् [अस्मि], अहम् पश्चात् [अस्मि], अहम् पुरस्तात् [अस्मि], अहम् दक्षिणतः [अस्मि], अहम् उत्तरतः [अस्मि]; अहम् एव इदम् सर्वम् [अस्मि] इति ।

Passage 138.2

अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदँ सर्वमिति । स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति । अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषाँ सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥

पदच्छेद

अथathaअतःataḥआत्मादेशःātmādeśaḥएवevaआत्माātmāएवevaअधस्तात्adhastātआत्माātmāउपरिष्टात्upariṣṭātआत्माātmāपश्चात्paścātआत्माātmāपुरस्तात्purastātआत्माātmāदक्षिणतःdakṣiṇataḥआत्माātmāउत्तरतःuttarataḥआत्माātmāएवevaइदम्idamसर्वम्sarvamइतिitiसःsaḥवैvaiएषःeṣaḥएवम्evamपश्यन्paśyanएवम्evamमन्वानःmanvānaḥएवम्evamविजानन्vijānanआत्मरतिःātmaratiḥआत्मक्रीडःātmakrīḍaḥआत्ममिथुनःātmamithunaḥआत्मानन्दःātmānandaḥसःsaḥस्वराट्svarāṭभवतिbhavatiतस्यtasyaसर्वेषुsarveṣuलोकेषुlokeṣuकामचारःkāmacāraḥभवतिbhavatiअथathaयेyeअन्यथाanyathāअतःataḥविदुःviduḥअन्यराजानःanyarājānaḥतेteक्षय्यलोकाःkṣayyalokāḥभवन्तिbhavantiतेषाम्teṣāmसर्वेषुsarveṣuलोकेषुlokeṣuअकामचारःakāmacāraḥभवतिbhavati

अन्वय

अथ अतः आत्मादेशः एव [भवति]—आत्मा एव अधस्तात् [अस्ति], आत्मा उपरिष्टात् [अस्ति], आत्मा पश्चात् [अस्ति], आत्मा पुरस्तात् [अस्ति], आत्मा दक्षिणतः [अस्ति], आत्मा उत्तरतः [अस्ति]; आत्मा एव इदम् सर्वम् [अस्ति] इति । सः वा एषः एवम् पश्यन् एवम् मन्वानः एवम् विजानन् आत्मरतिः आत्मक्रीडः आत्ममिथुनः आत्मानन्दः [सन्] सः स्वराट् भवति; तस्य सर्वेषु लोकेषु कामचारः भवति । अथ ये अतः अन्यथा विदुः, ते अन्यराजानः क्षय्यलोकाः भवन्ति; तेषाम् सर्वेषु लोकेषु अकामचारः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 25

Read the whole section →