Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 10

संस्कृत

Passage 107.1

इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥

पदच्छेद

इमाःimāḥसोम्यsomyaनद्यःnadyaḥपुरस्तात्purastātप्राच्यःprācyaḥस्यन्दन्तेsyandanteपश्चात्paścātप्रतीच्यःpratīcyaḥताःtāḥसमुद्रात्samudrātसमुद्रम्samudramएवevaअपियन्तिapiyantiसःsaḥसमुद्रःsamudraḥएवevaभवतिbhavatiताःtāḥयथाyathāतत्रtatraनnaविदुःviduḥइयम्iyamअहम्ahamअस्मिasmiइयम्iyamअहम्ahamअस्मिasmiइतिiti

अन्वय

सोम्य, इमाः नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते; पश्चात् प्रतीच्यः [स्यन्दन्ते] । ताः समुद्रात् समुद्रम् एव अपियन्ति । सः [तासाम् जलराशिः] समुद्रः एव भवति । यथा ताः तत्र, इयम् अहम् अस्मि; इयम् अहम् अस्मि इति न विदुः ।

Passage 107.2

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ २ ॥

पदच्छेद

एवम्evamएवevaखलुkhaluसोम्यsomyaइमाःimāḥसर्वाःsarvāḥप्रजाःprajāḥसतःsataḥआगम्यāgamyaनnaविदुःviduḥसतःsataḥआगच्छामहेāgacchāmaheइतिitiतेteइहihaव्याघ्रःvyāghraḥवाvāसिंहःsiṃhaḥवाvāवृकःvṛkaḥवाvāवराहःvarāhaḥवाvāकीटःkīṭaḥवाvāपतङ्गःpataṅgaḥवाvāदंशःdaṃśaḥवाvāमशकःmaśakaḥवाvāयत्yatयत्yatभवन्तिbhavantiतत्tatआāभवन्तिbhavanti

अन्वय

एवम् एव खलु सोम्य इमाः सर्वाः प्रजाः सतः आगम्य, सतः आगच्छामहे इति न विदुः । ते इह व्याघ्रः वा सिंहः वा वृकः वा वराहः वा कीटः वा पतङ्गः वा दंशः वा मशकः वा यत् यत् भवन्ति, तत् आभवन्ति ।

Passage 107.3

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअणिमाaṇimāएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सः यः एषः अणिमा [अस्ति], इदम् सर्वम् एतदात्म्यम् [अस्ति]; तत् सत्यम् [अस्ति]; सः आत्मा [अस्ति]; श्वेतकेतो, तत् त्वम् असि इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 10

Read the whole section →