Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 14

संस्कृत

Passage 70.1

ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ १ ॥

पदच्छेद

तेteहhaऊचुःūcuḥउपकोसलupakosalaएषाeṣāसोम्यsomyaतेteअस्मद्विद्याasmadvidyāआत्मविद्याātmavidyāचcaआचार्यःācāryaḥतुtuतेteगतिम्gatimवक्ताvaktāइतिitiआजगामājagāmaहhaअस्यasyaआचार्यःācāryaḥतम्tamआचार्यःācāryaḥअभ्युवादabhyuvādaउपकोसल३upakosala3इतिiti

अन्वय

ते ह ऊचुः—उपकोसल, सोम्य, एषा ते अस्मद्विद्या आत्मविद्या च [अस्ति] । तु आचार्यः ते गतिम् वक्ता इति । अस्य ह आचार्यः आजगाम । तम् आचार्यः अभ्युवाद—उपकोसल३ इति ।

Passage 70.2

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥

पदच्छेद

भगवःbhagavaḥइतिitiहhaप्रतिशुश्रावpratiśuśrāvaब्रह्मविदःbrahmavidaḥइवivaसोम्यsomyaतेteमुखम्mukhamभातिbhātiकःkaḥनुnuत्वाtvāअनुशशासanuśaśāsaइतिitiकःkaḥनुnuमाmāअनुशिष्यात्anuśiṣyātभोःbhoḥइतिitiइहihaअपapaइवivaनिह्नुतेnihnuteइमेimeनूनम्nūnamईदृशाःīdṛśāḥअन्यादृशाःanyādṛśāḥइतिitiइहihaअग्नीन्agnīnअभ्यूदेabhyūdeकिम्kimनुnuसोम्यsomyaकिलkilaतेteअवोचन्avocanइतिiti

अन्वय

भगवः इति [उपकोसलः] ह प्रतिशुश्राव । [आचार्यः आह—] सोम्य, ते मुखम् ब्रह्मविदः इव भाति । त्वा कः नु अनुशशास इति । [उपकोसलः आह—] भोः, मा कः नु अनुशिष्यात् इति इह अप निह्नुते इव । इमे नूनम् ईदृशाः [सन्ति], [पूर्वम्] अन्यादृशाः [आसन्] इति इह अग्नीन् अभ्यूदे । [आचार्यः पप्रच्छ—] सोम्य, ते किम् नु किल अवोचन् इति ।

Passage 70.3

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥

पदच्छेद

इदम्idamइतिitiहhaप्रतिजज्ञेpratijajñeलोकान्lokānवावvāvaकिलkilaसोम्यsomyaतेteअवोचन्avocanअहम्ahamतुtuतेteतत्tatवक्ष्यामिvakṣyāmiयथाyathāपुष्करपलाशेpuṣkarapalāśeआपःāpaḥनnaश्लिष्यन्तेśliṣyanteएवम्evamएवम्विदिevamvidiपापम्pāpamकर्मkarmaनnaश्लिष्यतेśliṣyateइतिitiब्रवीतुbravītuमेmeभगवान्bhagavānइतिitiतस्मैtasmaiहhaउवाचuvāca

अन्वय

इदम् इति [उपकोसलः] ह प्रतिजज्ञे । [आचार्यः आह—] सोम्य, ते किल वाव लोकान् अवोचन् । तु अहम् ते तत् वक्ष्यामि—यथा पुष्करपलाशे आपः न श्लिष्यन्ते, एवम् एवम् विदि पापम् कर्म न श्लिष्यते इति । [उपकोसलः आह—] भगवान् मे ब्रवीतु इति । [आचार्यः] तस्मै ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 14

Read the whole section →