Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 13

संस्कृत

Passage 26.1

उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥

पदच्छेद

उपमन्त्रयतेupamantrayateसःsaḥहिङ्कारःhiṅkāraḥज्ञपयतेjñapayateसःsaḥप्रस्तावःprastāvaḥस्त्रियाstriyāसहsahaशेतेśeteसःsaḥउद्गीथःudgīthaḥप्रतिpratiस्त्रीम्strīmसहsahaशेतेśeteसःsaḥप्रतिहारःpratihāraḥकालम्kālamगच्छतिgacchatiतत्tatनिधनम्nidhanamपारम्pāramगच्छतिgacchatiतत्tatनिधनम्nidhanamएतत्etatवामदेव्यम्vāmadevyamमिथुनेmithuneप्रोतम्protam

अन्वय

उपमन्त्रयते, सः हिङ्कारः [अस्ति] । ज्ञपयते, सः प्रस्तावः [अस्ति] । स्त्रिया सह शेते, सः उद्गीथः [अस्ति] । स्त्रीम् प्रति सह शेते, सः प्रतिहारः [अस्ति] । कालम् गच्छति, तत् निधनम् [अस्ति]; पारम् गच्छति, तत् निधनम् [अस्ति] । एतत् वामदेव्यम् मिथुने प्रोतम् [अस्ति] ।

Passage 26.2

स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न काञ्चन परिहरेत्तद्व्रतम् ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥएवम्evamएतत्etatवामदेव्यम्vāmadevyamमिथुनेmithuneप्रोतम्protamवेदvedaमिथुनीभवतिmithunībhavatiमिथुनात्mithunātमिथुनात्mithunātप्रजायतेprajāyateसर्वम्sarvamआयुःāyuḥएतिetiज्योक्jyokजीवतिjīvatiमहान्mahānप्रजयाprajayāपशुभिःpaśubhiḥभवतिbhavatiमहान्mahānकीर्त्याkīrtyāनnaकाञ्चनkāñcanaपरिहरेत्pariharetतत्tatव्रतम्vratam

अन्वय

सः यः एवम् मिथुने प्रोतम् एतत् वामदेव्यम् वेद, [सः] मिथुनीभवति, मिथुनात् मिथुनात् प्रजायते, सर्वम् आयुः एति, ज्योक् जीवति, प्रजया पशुभिः महान् भवति, कीर्त्या महान् [भवति] । काञ्चन न परिहरेत्; तत् व्रतम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 13

Read the whole section →