Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 11

संस्कृत

Passage 84.1

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाँसां चक्रुः को नु आत्मा किं ब्रह्मेति ॥ १ ॥

पदच्छेद

प्राचीनशालःprācīnaśālaḥऔपमन्यवःaupamanyavaḥसत्ययज्ञःsatyayajñaḥपौलुषिःpauluṣiḥइन्द्रद्युम्नःindradyumnaḥभाल्लवेयःbhāllaveyaḥजनःjanaḥशार्कराक्ष्यःśārkarākṣyaḥबुडिलःbuḍilaḥआश्वतराश्विःāśvatarāśviḥतेteहhaएतेeteमहाशालाःmahāśālāḥमहाश्रोत्रियाःmahāśrotriyāḥसमेत्यsametyaमीमांसाम्mīmāṃsāmचक्रुःcakruḥकःkaḥनुnuआत्माātmāकिम्kimब्रह्मbrahmaइतिiti

अन्वय

प्राचीनशालः औपमन्यवः, सत्ययज्ञः पौलुषिः, इन्द्रद्युम्नः भाल्लवेयः, जनः शार्कराक्ष्यः, बुडिलः आश्वतराश्विः—ते ह एते महाशालाः महाश्रोत्रियाः समेत्य, कः नु आत्मा, किम् ब्रह्म इति मीमांसाम् चक्रुः ।

Passage 84.2

ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तँ हन्ताभ्यागच्छामेति तँ हाभ्याजग्मुः ॥ २ ॥

पदच्छेद

तेteहhaसम्पादयाम्sampādayāmचक्रुःcakruḥउद्दालकःuddālakaḥवैvaiभगवन्तःbhagavantaḥअयम्ayamआरुणिःāruṇiḥसम्प्रतिsampratiइमम्imamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramअध्येतिadhyetiतम्tamहन्तhantaअभ्यागच्छामabhyāgacchāmaइतिitiतम्tamहhaअभ्याजग्मुःabhyājagmuḥ

अन्वय

ते ह, भगवन्तः, अयम् उद्दालकः आरुणिः वै सम्प्रति इमम् आत्मानम् वैश्वानरम् अध्येति; हन्त तम् अभ्यागच्छाम इति सम्पादयाञ्चक्रुः । तम् ह अभ्याजग्मुः ।

Passage 84.3

स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥

पदच्छेद

सःsaḥहhaसम्पादयाम्sampādayāmचकारcakāraप्रक्ष्यन्तिprakṣyantiमाम्māmइमेimeमहाशालाःmahāśālāḥमहाश्रोत्रियाःmahāśrotriyāḥतेभ्यःtebhyaḥनnaसर्वम्sarvamइवivaप्रतिपत्स्येpratipatsyeहन्तhantaअहम्ahamअन्यम्anyamअभ्यनुशासानिabhyanuśāsāniइतिiti

अन्वय

सः ह, इमे महाशालाः महाश्रोत्रियाः माम् प्रक्ष्यन्ति; तेभ्यः सर्वम् इव न प्रतिपत्स्ये; हन्त अहम् अन्यम् [उपदेष्टारम्] अभ्यनुशासानि इति सम्पादयाञ्चकार ।

Passage 84.4

तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तँहन्ताभ्यागच्छामेति तँहाभ्याजग्मुः ॥ ४ ॥

पदच्छेद

तान्tānहhaउवाचuvācaअश्वपतिःaśvapatiḥवैvaiभगवन्तःbhagavantaḥअयम्ayamकैकेयःkaikeyaḥसम्प्रतिsampratiइमम्imamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramअध्येतिadhyetiतम्tamहन्तhantaअभ्यागच्छामabhyāgacchāmaइतिitiतम्tamहhaअभ्याजग्मुःabhyājagmuḥ

अन्वय

सः तान् ह, भगवन्तः, अयम् अश्वपतिः कैकेयः वै सम्प्रति इमम् आत्मानम् वैश्वानरम् अध्येति; हन्त तम् अभ्यागच्छाम इति उवाच । तम् ह अभ्याजग्मुः ।

Passage 84.5

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥

पदच्छेद

तेभ्यःtebhyaḥहhaप्राप्तेभ्यःprāptebhyaḥपृथक्pṛthakअर्हाणिarhāṇiकारयाम्kārayāmचकारcakāraसःsaḥहhaप्रातःprātaḥसञ्जिहानःsañjihānaḥउवाचuvācaनnaमेmeस्तेनःstenaḥजनपदेjanapadeनnaकर्दर्यःkardaryaḥनnaमद्यपःmadyapaḥनnaअनाहिताग्निःanāhitāgniḥनnaअविद्वान्avidvānनnaस्वैरीsvairīस्वैरिणीsvairiṇīकुतःkutaḥयक्ष्यमाणःyakṣyamāṇaḥवैvaiभगवन्तःbhagavantaḥअहम्ahamअस्मिasmiयावत्yāvatएकैकस्मैekaikasmaiऋत्विजेṛtvijeधनम्dhanamदास्यामिdāsyāmiतावत्tāvatभगवद्भ्यःbhagavadbhyaḥदास्यामिdāsyāmiवसन्तुvasantuभगवन्तःbhagavantaḥइतिiti

Passage 84.6

ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तँहैव वदेदात्मानमेवेमं वैश्वानरँ सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥

पदच्छेद

तेteहhaऊचुःūcuḥयेनyenaहhaएवevaअर्थेनarthenaपुरुषःpuruṣaḥचरेत्caretतम्tamहhaएवevaवदेत्vadetआत्मानम्ātmānamएवevaइमम्imamवैश्वानरम्vaiśvānaramसम्प्रतिsampratiअध्येषिadhyeṣiतम्tamएवevaनःnaḥब्रूहिbrūhiइतिiti

अन्वय

ते ह, पुरुषः येन ह एव अर्थेन चरेत्, तम् ह एव [अर्थम्] वदेत् । [त्वम्] सम्प्रति इमम् आत्मानम् वैश्वानरम् एव अध्येषि; तम् एव नः ब्रूहि इति ऊचुः ।

Passage 84.7

तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयै वैतदुवाच ॥ ७ ॥

पदच्छेद

तान्tānहhaउवाचuvācaप्रातःprātaḥवःvaḥप्रतिवक्ताprativaktāअस्मिasmiइतिitiतेteहhaसमित्पाणयःsamitpāṇayaḥपूर्वाह्णेpūrvāhṇeप्रतिचक्रमिरेpraticakramireतान्tānहhaअनुपनीयanupanīyaएवevaएतत्etatउवाचuvāca

अन्वय

सः तान् ह, प्रातः वः प्रतिवक्ता अस्मि इति उवाच । ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे । सः तान् ह अनुपनीय एव एतत् उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 11

Read the whole section →