Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 1

संस्कृत

Passage 114.1

अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तँ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥

पदच्छेद

अधीहिadhīhiभगवःbhagavaḥइतिitiहhaउपससादupasasādaसनत्कुमारम्sanatkumāramनारदःnāradaḥतम्tamहhaउवाचuvācaयत्yatवेत्थvetthaतेनtenaमाmāउपसीदupasīdaततःtataḥतेteऊर्ध्वम्ūrdhvamवक्ष्यामिvakṣyāmiइतिitiसःsaḥहhaउवाचuvāca

अन्वय

नारदः, भगवः, अधीहि इति ह सनत्कुमारम् उपससाद । [सनत्कुमारः] तम् ह, यत् वेत्थ, तेन मा उपसीद; ततः ते ऊर्ध्वम् वक्ष्यामि इति उवाच । सः [नारदः] ह उवाच ।

Passage 114.2

ऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥

पदच्छेद

ऋग्वेदम्ṛgvedamभगवःbhagavaḥअध्येमिadhyemiयजुर्वेदम्yajurvedamसामवेदम्sāmavedamआथर्वणम्ātharvaṇamचतुर्थम्caturthamइतिहासपुराणम्itihāsapurāṇamपञ्चमम्pañcamamवेदानाम्vedānāmवेदम्vedamपित्र्यम्pitryamराशिम्rāśimदैवम्daivamनिधिम्nidhimवाकोवाक्यम्vākovākyamएकायनम्ekāyanamदेवविद्याम्devavidyāmब्रह्मविद्याम्brahmavidyāmभूतविद्याम्bhūtavidyāmक्षत्रविद्याम्kṣatravidyāmनक्षत्रविद्याम्nakṣatravidyāmसर्पदेवजनविद्याम्sarpadevajanavidyāmएतत्etatभगवःbhagavaḥअध्येमिadhyemi

अन्वय

भगवः, ऋग्वेदम् अध्येमि, यजुर्वेदम्, सामवेदम्, चतुर्थम् आथर्वणम्, पञ्चमम् इतिहासपुराणम्, वेदानाम् वेदम्, पित्र्यम्, राशिम्, दैवम्, निधिम्, वाकोवाक्यम्, एकायनम्, देवविद्याम्, ब्रह्मविद्याम्, भूतविद्याम्, क्षत्रविद्याम्, नक्षत्रविद्याम्, सर्पदेवजनविद्याम् [अध्येमि] । भगवः, एतत् अध्येमि ।

Passage 114.3

सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतँ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तँ होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥

पदच्छेद

सःsaḥअहम्ahamभगवःbhagavaḥमन्त्रवित्mantravitएवevaअस्मिasmiनnaआत्मवित्ātmavitश्रुतम्śrutamहिhiएवevaमेmeभगवद्दृशेभ्यःbhagavaddṛśebhyaḥतरतिtaratiशोकम्śokamआत्मवित्ātmavitइतिitiसःsaḥअहम्ahamभगवःbhagavaḥशोचामिśocāmiतम्tamमाmāभगवान्bhagavānशोकस्यśokasyaपारम्pāramतारयतुtārayatuइतिitiतम्tamहhaउवाचuvācaयत्yatवैvaiकिञ्चkiñcaएतत्etatअध्यगीष्ठाःadhyagīṣṭhāḥनामnāmaएवevaएतत्etat

अन्वय

भगवः, सः अहम् मन्त्रवित् एव अस्मि, आत्मवित् न [अस्मि] । आत्मवित् शोकम् तरति इति भगवद्दृशेभ्यः मे श्रुतम् हि एव [अस्ति] । भगवः, सः अहम् शोचामि; भगवान् तम् मा शोकस्य पारम् तारयतु इति [नारदः उवाच] । [सनत्कुमारः] तम् ह, यत् वै किञ्च एतत् अध्यगीष्ठाः, एतत् नाम एव [अस्ति] इति उवाच ।

Passage 114.4

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥

पदच्छेद

नामnāmaवैvaiऋग्वेदःṛgvedaḥयजुर्वेदःyajurvedaḥसामवेदःsāmavedaḥआथर्वणःātharvaṇaḥचतुर्थःcaturthaḥइतिहासपुराणःitihāsapurāṇaḥपञ्चमःpañcamaḥवेदानाम्vedānāmवेदःvedaḥपित्र्यःpitryaḥराशिःrāśiḥदैवःdaivaḥनिधिःnidhiḥवाकोवाक्यम्vākovākyamएकायनम्ekāyanamदेवविद्याdevavidyāब्रह्मविद्याbrahmavidyāभूतविद्याbhūtavidyāक्षत्रविद्याkṣatravidyāनक्षत्रविद्याnakṣatravidyāसर्पदेवजनविद्याsarpadevajanavidyāनामnāmaएवevaएतत्etatनामnāmaउपास्स्वupāssvaइतिiti

अन्वय

ऋग्वेदः, यजुर्वेदः, सामवेदः, चतुर्थः आथर्वणः, पञ्चमः इतिहासपुराणः, वेदानाम् वेदः, पित्र्यः, राशिः, दैवः, निधिः, वाकोवाक्यम्, एकायनम्, देवविद्या, ब्रह्मविद्या, भूतविद्या, क्षत्रविद्या, नक्षत्रविद्या, सर्पदेवजनविद्या—[एतत्] नाम वा [अस्ति] । एतत् नाम एव [अस्ति]; नाम उपास्स्व इति [उवाच] ।

Passage 114.5

स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥

पदच्छेद

सःsaḥयःyaḥनामnāmaब्रह्मbrahmaइतिitiउपास्तेupāsteयावत्yāvatनाम्नःnāmnaḥगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥनामnāmaब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥनाम्नःnāmnaḥभूयःbhūyaḥइतिitiनाम्नःnāmnaḥवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः नाम ब्रह्म इति उपास्ते, यावत् नाम्नः गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः नाम ब्रह्म इति उपास्ते । [नारदः], भगवः, नाम्नः भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], नाम्नः वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 1

Read the whole section →