Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 12

संस्कृत

Passage 85.1

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥

पदच्छेद

औपमन्यवaupamanyavaकम्kamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseइतिitiदिवम्divamएवevaभगवःbhagavaḥराजन्rājanइतिitiहhaउवाचuvācaएषःeṣaḥवैvaiसुतेजाःsutejāḥआत्माātmāवैश्वानरःvaiśvānaraḥयम्yamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseतस्मात्tasmātतवtavaसुतम्sutamप्रसुतम्prasutamआसुतम्āsutamकुलेkuleदृश्यतेdṛśyate

अन्वय

[सः], औपमन्यव, त्वम् कम् आत्मानम् उपास्से इति [पप्रच्छ] । [सः], भगवः राजन्, दिवम् एव [उपासे] इति ह उवाच । [सः], त्वम् यम् आत्मानम् उपास्से, एषः वै सुतेजाः आत्मा वैश्वानरः [अस्ति]; तस्मात् तव कुले सुतम् प्रसुतम् आसुतम् दृश्यते [इति उवाच] ।

Passage 85.2

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ २ ॥

पदच्छेद

अत्सिatsiअन्नम्annamपश्यसिpaśyasiप्रियम्priyamअत्तिattiअन्नम्annamपश्यतिpaśyatiप्रियम्priyamभवतिbhavatiअस्यasyaब्रह्मवर्चसम्brahmavarcasamकुलेkuleयःyaḥएतम्etamएवम्evamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramउपास्तेupāsteमूर्धाmūrdhāतुtuएषःeṣaḥआत्मनःātmanaḥइतिitiहhaउवाचuvācaमूर्धाmūrdhāतेteव्यपतिष्यत्vyapatiṣyatयत्yatमाम्māmनnaआगमिष्यःāgamiṣyaḥइतिiti

अन्वय

[त्वम्] अन्नम् अत्सि, प्रियम् पश्यसि । यः एतम् आत्मानम् वैश्वानरम् एवम् उपास्ते, [सः] अन्नम् अत्ति, प्रियम् पश्यति; अस्य कुले ब्रह्मवर्चसम् भवति । एषः तु आत्मनः मूर्धा [अस्ति]; यत् माम् न आगमिष्यः, ते मूर्धा व्यपतिष्यत् इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 12

Read the whole section →