Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 11

संस्कृत

Passage 24.1

मनो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥

पदच्छेद

मनःmanaḥहिङ्कारःhiṅkāraḥवाक्vākप्रस्तावःprastāvaḥचक्षुःcakṣuḥउद्गीथःudgīthaḥश्रोत्रम्śrotramप्रतिहारःpratihāraḥप्राणःprāṇaḥनिधनम्nidhanamएतत्etatगायत्रम्gāyatramप्राणेषुprāṇeṣuप्रोतम्protam

अन्वय

मनः हिङ्कारः [अस्ति]; वाक् प्रस्तावः [अस्ति]; चक्षुः उद्गीथः [अस्ति]; श्रोत्रम् प्रतिहारः [अस्ति]; प्राणः निधनम् [अस्ति] । एतत् गायत्रम् प्राणेषु प्रोतम् [अस्ति] ।

Passage 24.2

स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २ ॥

पदच्छेद

सःsaḥएवम्evamएतत्etatगायत्रम्gāyatramप्राणेषुprāṇeṣuप्रोतम्protamवेदvedaप्राणीprāṇīभवतिbhavatiसर्वम्sarvamआयुःāyuḥएतिetiज्योक्jyokजीवतिjīvatiमहान्mahānप्रजयाprajayāपशुभिःpaśubhiḥभवतिbhavatiमहान्mahānकीर्त्याkīrtyāमहामनाःmahāmanāḥस्यात्syātतत्tatव्रतम्vratam

अन्वय

सः एवम् प्राणेषु प्रोतम् एतत् गायत्रम् वेद; [सः] प्राणी भवति, सर्वम् आयुः एति, ज्योक् जीवति, प्रजया पशुभिः महान् भवति, कीर्त्या महान् [भवति] । महामनाः स्यात्; तत् व्रतम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 11

Read the whole section →