Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 7

संस्कृत

Passage 63.1

हꣳसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥

पदच्छेद

हंसःhaṃsaḥतेteपादम्pādamवक्ताvaktāइतिitiसःsaḥहhaश्वःśvaḥभूतेbhūteगाःgāḥअभिप्रस्थापयाम्abhiprasthāpayāmचकारcakāraताःtāḥयत्रyatraअभिसायम्abhisāyamबभूवुःbabhūvuḥतत्रtatraअग्निम्agnimउपसमाधायupasamādhāyaगाःgāḥउपरुध्यuparudhyaसमिधम्samidhamआधायādhāyaपश्चात्paścātअग्नेःagneḥप्राङ्prāṅउपोपविवेशupopaviveśa

अन्वय

[अग्निः आह—] हंसः ते पादम् वक्ता इति । सः ह श्वोभूते [अहनि] गाः अभिप्रस्थापयाञ्चकार । ताः यत्र अभिसायम् बभूवुः, तत्र अग्निम् उपसमाधाय गाः उपरुध्य समिधम् आधाय अग्नेः पश्चात् प्राङ् उपोपविवेश ।

Passage 63.2

तꣳ हꣳस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

पदच्छेद

तम्tamहंसःhaṃsaḥउपनिपत्यupanipatyaअभ्युवादabhyuvādaसत्यकाम३satyakāma3इतिitiभगवःbhagavaḥइतिitiहhaप्रतिशुश्रावpratiśuśrāva

अन्वय

तम् हंसः उपनिपत्य अभ्युवाद—सत्यकाम३ इति । भगवः इति [सत्यकामः] ह प्रतिशुश्राव ।

Passage 63.3

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥

पदच्छेद

ब्रह्मणःbrahmaṇaḥसोम्यsomyaतेteपादम्pādamब्रवाणिbravāṇiइतिitiब्रवीतुbravītuमेmeभगवान्bhagavānइतिitiतस्मैtasmaiहhaउवाचuvācaअग्निःagniḥकलाkalāसूर्यःsūryaḥकलाkalāचन्द्रःcandraḥकलाkalāविद्युत्vidyutकलाkalāएषःeṣaḥवैvaiसोम्यsomyaचतुष्कलःcatuṣkalaḥपादःpādaḥब्रह्मणःbrahmaṇaḥज्योतिष्मान्jyotiṣmānनामnāma

अन्वय

[हंसः आह—] सोम्य, ब्रह्मणः ते पादम् ब्रवाणि इति । [सत्यकामः आह—] भगवान् मे ब्रवीतु इति । [हंसः] तस्मै ह उवाच—अग्निः कला [अस्ति]; सूर्यः कला [अस्ति]; चन्द्रः कला [अस्ति]; विद्युत् कला [अस्ति] । सोम्य, वै एषः ब्रह्मणः चतुष्कलः पादः ज्योतिष्मान् नाम [अस्ति] ।

Passage 63.4

स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिꣳल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥

पदच्छेद

सःsaḥयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥज्योतिष्मान्jyotiṣmānइतिitiउपास्तेupāsteज्योतिष्मान्jyotiṣmānअस्मिन्asminलोकेlokeभवतिbhavatiज्योतिष्मतःjyotiṣmataḥहhaलोकान्lokānजयतिjayatiयःyaḥएतम्etamएवम्evamविद्वान्vidvānचतुष्कलम्catuṣkalamपादम्pādamब्रह्मणःbrahmaṇaḥज्योतिष्मान्jyotiṣmānइतिitiउपास्तेupāste

अन्वय

यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् ज्योतिष्मान् इति उपास्ते, सः अस्मिन् लोके ज्योतिष्मान् भवति । यः एतम् ब्रह्मणः चतुष्कलम् पादम् एवम् विद्वान् ज्योतिष्मान् इति उपास्ते, [सः] ह ज्योतिष्मतः लोकान् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 7

Read the whole section →