Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 12

संस्कृत

Passage 151.1

मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥

पदच्छेद

मघवन्maghavanमर्त्यम्martyamवैvaiइदम्idamशरीरम्śarīramआत्तम्āttamमृत्युनाmṛtyunāतत्tatअस्यasyaअमृतस्यamṛtasyaअशरीरस्यaśarīrasyaआत्मनःātmanaḥअधिष्ठानम्adhiṣṭhānamआत्तःāttaḥवैvaiसशरीरःsaśarīraḥप्रियाप्रियाभ्याम्priyāpriyābhyāmनnaवैvaiसशरीरस्यsaśarīrasyaसतःsataḥप्रियाप्रिययोःpriyāpriyayoḥअपहतिःapahatiḥअस्तिastiअशरीरम्aśarīramवावvāvaसन्तम्santamनnaप्रियाप्रियेpriyāpriyeस्पृशतःspṛśataḥ

अन्वय

मघवन्, इदम् शरीरम् वै मर्त्यम् मृत्युना आत्तम् [अस्ति] । तत् अस्य अमृतस्य अशरीरस्य आत्मनः अधिष्ठानम् [अस्ति] । सशरीरः वै प्रियाप्रियाभ्याम् आत्तः [अस्ति]; सशरीरस्य सतः प्रियाप्रिययोः अपहतिः वै न अस्ति । अशरीरम् वाव सन्तम् प्रियाप्रिये न स्पृशतः ।

Passage 151.2

अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥

पदच्छेद

अशरीरःaśarīraḥवायुःvāyuḥअभ्रम्abhramविद्युत्vidyutस्तनयित्नुःstanayitnuḥअशरीराणिaśarīrāṇiएतानिetāniतत्tatयथाyathāएतानिetāniअमुष्मात्amuṣmātआकाशात्ākāśātसमुत्थायsamutthāyaपरम्paramज्योतिःjyotiḥउपसंपद्यupasaṃpadyaस्वेनsvenaरूपेणrūpeṇaअभिनिष्पद्यन्तेabhiniṣpadyante

अन्वय

वायुः अशरीरः [अस्ति] । अभ्रम् विद्युत् स्तनयित्नुः—एतानि अशरीराणि [सन्ति] । तत् यथा एतानि अमुष्मात् आकाशात् समुत्थाय परम् ज्योतिः उपसम्पद्य स्वेन रूपेण अभिनिष्पद्यन्ते ।

Passage 151.3

एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥

पदच्छेद

एवम्evamएवevaएषःeṣaḥसंप्रसादःsaṃprasādaḥअस्मात्asmātशरीरात्śarīrātसमुत्थायsamutthāyaपरम्paramज्योतिःjyotiḥउपसंपद्यupasaṃpadyaस्वेनsvenaरूपेणrūpeṇaअभिनिष्पद्यतेabhiniṣpadyateसःsaḥउत्तमपुरुषःuttamapuruṣaḥसःsaḥतत्रtatraपर्येतिparyetiजक्षत्jakṣatक्रीडन्krīḍanरममाणःramamāṇaḥस्त्रीभिःstrībhiḥवाvāयानैःyānaiḥवाvāज्ञातिभिःjñātibhiḥवाvāनnaउपजनम्upajanamस्मरन्smaranइदम्idamशरीरम्śarīramसःsaḥयथाyathāप्रयोग्यःprayogyaḥआचरणेācaraṇeयुक्तःyuktaḥएवम्evamएवevaअयम्ayamअस्मिन्asminशरीरेśarīreप्राणःprāṇaḥयुक्तःyuktaḥ

अन्वय

एवम् एव एषः सम्प्रसादः अस्मात् शरीरात् समुत्थाय परम् ज्योतिः उपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते । सः उत्तमपुरुषः [अस्ति] । सः तत्र जक्षत् क्रीडन् स्त्रीभिः वा यानैः वा ज्ञातिभिः वा रममाणः इदम् उपजनम् शरीरम् न स्मरन् पर्येति । सः यथा प्रयोग्यः आचरणे युक्तः [अस्ति], एवम् एव अयम् प्राणः अस्मिन् शरीरे युक्तः [अस्ति] ।

Passage 151.4

अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदꣳ शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥

पदच्छेद

अथathaयत्रyatraएतत्etatआकाशम्ākāśamअनुविषण्णम्anuviṣaṇṇamचक्षुःcakṣuḥसःsaḥचाक्षुषःcākṣuṣaḥपुरुषःpuruṣaḥदर्शनायdarśanāyaचक्षुःcakṣuḥअथathaयःyaḥवेदvedaइदम्idamजिघ्राणिjighrāṇiइतिitiसःsaḥआत्माātmāगन्धायgandhāyaघ्राणम्ghrāṇamअथathaयःyaḥवेदvedaइदम्idamअभिव्याहराणिabhivyāharāṇiइतिitiसःsaḥआत्माātmāअभिव्याहारायabhivyāhārāyaवाक्vākअथathaयःyaḥवेदvedaइदम्idamशृणवानिśṛṇavāniइतिitiसःsaḥआत्माātmāश्रवणायśravaṇāyaश्रोत्रम्śrotram

अन्वय

अथ यत्र एतत् चक्षुः आकाशम् अनुविषण्णम् [अस्ति], [तत्र] सः चाक्षुषः पुरुषः [अस्ति]; चक्षुः दर्शनाय [अस्ति] । अथ यः इदम् जिघ्राणि इति वेद, सः आत्मा [अस्ति]; घ्राणम् गन्धाय [अस्ति] । अथ यः इदम् अभिव्याहराणि इति वेद, सः आत्मा [अस्ति]; वाक् अभिव्याहाराय [अस्ति] । अथ यः इदम् शृणवानि इति वेद, सः आत्मा [अस्ति]; श्रोत्रम् श्रवणाय [अस्ति] ।

Passage 151.5

अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ ५ ॥

पदच्छेद

अथathaयःyaḥवेदvedaइदम्idamमन्वानिmanvāniइतिitiसःsaḥआत्माātmāमनःmanaḥअस्यasyaदैवम्daivamचक्षुःcakṣuḥसःsaḥवैvaiएषःeṣaḥएतेनetenaदैवेनdaivenaचक्षुषाcakṣuṣāमनसाmanasāएतान्etānकामान्kāmānपश्यन्paśyanरमतेramateयेyeएतेeteब्रह्मलोकेbrahmaloke

अन्वय

अथ यः इदम् मन्वानि इति वेद, सः आत्मा [अस्ति] । अस्य मनः दैवम् चक्षुः [अस्ति] । सः वै एषः एतेन दैवेन चक्षुषा मनसा एतान् कामान् पश्यन् रमते, ये एते ब्रह्मलोके [सन्ति] ।

Passage 151.6

तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥

पदच्छेद

तम्tamवैvaiएतम्etamदेवाःdevāḥआत्मानम्ātmānamउपासतेupāsateतस्मात्tasmātतेषाम्teṣāmसर्वेsarveचcaलोकाःlokāḥआत्ताःāttāḥसर्वेsarveचcaकामाःkāmāḥसःsaḥसर्वान्sarvānचcaलोकान्lokānआप्नोतिāpnotiसर्वान्sarvānचcaकामान्kāmānयःyaḥतम्tamआत्मानम्ātmānamअनुविद्यanuvidyaविजानातिvijānātiइतिitiहhaप्रजापतिःprajāpatiḥउवाचuvācaप्रजापतिःprajāpatiḥउवाचuvāca

अन्वय

देवाः तम् वै एतम् आत्मानम् उपासते । तस्मात् तेषाम् सर्वे च लोकाः सर्वे च कामाः आत्ताः [सन्ति] । यः तम् आत्मानम् अनुविद्य विजानाति, सः सर्वान् च लोकान् सर्वान् च कामान् आप्नोति इति ह प्रजापतिः उवाच; प्रजापतिः उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 12

Read the whole section →