Sunday Meditation· Open to Everyone

अध्याय 1, खण्ड 6

संस्कृत

Passage 6.1

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयत इयमेव साग्निरमस्तत्साम ॥ १ ॥

पदच्छेद

इयम्iyamएवevaऋक्ṛkअग्निःagniḥसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateइयम्iyamएवevaसाsāअग्निःagniḥअमःamaḥतत्tatसामsāma

अन्वय

इयम् एव ऋक् [अस्ति]; अग्निः साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । इयम् एव सा [अस्ति]; अग्निः अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 6.2

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ २ ॥

पदच्छेद

अन्तरिक्षम्antarikṣamएवevaऋक्ṛkवायुःvāyuḥसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateअन्तरिक्षम्antarikṣamएवevaसाsāवायुःvāyuḥअमःamaḥतत्tatसामsāma

अन्वय

अन्तरिक्षम् एव ऋक् [अस्ति]; वायुः साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । अन्तरिक्षम् एव सा [अस्ति]; वायुः अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 6.3

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ ३ ॥

पदच्छेद

द्यौःdyauḥएवevaऋक्ṛkआदित्यःādityaḥसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateद्यौःdyauḥएवevaसाsāआदित्यःādityaḥअमःamaḥतत्tatसामsāma

अन्वय

द्यौः एव ऋक् [अस्ति]; आदित्यः साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । द्यौः एव सा [अस्ति]; आदित्यः अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 6.4

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ ४ ॥

पदच्छेद

नक्षत्राणिnakṣatrāṇiएवevaऋक्ṛkचन्द्रमाःcandramāḥसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyateनक्षत्राणिnakṣatrāṇiएवevaसाsāचन्द्रमाःcandramāḥअमःamaḥतत्tatसामsāma

अन्वय

नक्षत्राणि एव ऋक् [सन्ति]; चन्द्रमाः साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते । नक्षत्राणि एव सा [सन्ति]; चन्द्रमाः अमः [अस्ति] । तत् साम [अस्ति] ।

Passage 6.5

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते ॥ ५ ॥

पदच्छेद

अथathaयत्yatएतत्etatआदित्यस्यādityasyaशुक्लम्śuklamभाःbhāḥसाsāएवevaऋक्ṛkअथathaयत्yatनीलम्nīlamपरःparaḥकृष्णम्kṛṣṇamतत्tatसामsāmaतत्tatएतत्etatएतस्याम्etasyāmऋचिṛciअध्यूढम्adhyūḍhamसामsāmaतस्मात्tasmātऋचिṛciअध्यूढम्adhyūḍhamसामsāmaगीयतेgīyate

अन्वय

अथ यत् एतत् आदित्यस्य शुक्लम् भाः [अस्ति], सा एव ऋक् [अस्ति] । अथ यत् नीलम् परः कृष्णम् [अस्ति], तत् साम [अस्ति] । तत् एतत् साम एतस्याम् ऋचि अध्यूढम् [अस्ति] । तस्मात् ऋचि अध्यूढम् साम गीयते ।

Passage 6.6

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ॥ ६ ॥

पदच्छेद

अथathaयत्yatएवevaएतत्etatआदित्यस्यādityasyaशुक्लम्śuklamभाःbhāḥसाsāएवevaसाsāअथathaयत्yatनीलम्nīlamपरःparaḥकृष्णम्kṛṣṇamतत्tatअमःamaḥतत्tatसामsāmaअथathaयःyaḥएषःeṣaḥअन्तःantaḥआदित्येādityeहिरण्मयःhiraṇmayaḥपुरुषःpuruṣaḥदृश्यतेdṛśyateहिरण्यश्मश्रुःhiraṇyaśmaśruḥहिरण्यकेशःhiraṇyakeśaḥआāप्रणखात्praṇakhātसर्वःsarvaḥएवevaसुवर्णःsuvarṇaḥ

अन्वय

अथ यत् एव एतत् आदित्यस्य शुक्लम् भाः [अस्ति], सा एव सा [अस्ति] । अथ यत् नीलम् परः कृष्णम् [अस्ति], तत् अमः [अस्ति] । तत् साम [अस्ति] । अथ यः एषः अन्तरादित्ये हिरण्मयः पुरुषः दृश्यते, [सः] हिरण्यश्मश्रुः हिरण्यकेशः आ प्रणखात् सर्वः एव सुवर्णः [अस्ति] ।

Passage 6.7

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥

पदच्छेद

तस्यtasyaयथाyathāकप्यासम्kapyāsamपुण्डरीकम्puṇḍarīkamएवम्evamअक्षिणीakṣiṇīतस्यtasyaउत्utइतिitiनामnāmaसःsaḥएषःeṣaḥसर्वेभ्यःsarvebhyaḥपाप्मभ्यःpāpmabhyaḥउदितःuditaḥउदेतिudetiहhaवैvaiसर्वेभ्यःsarvebhyaḥपाप्मभ्यःpāpmabhyaḥयःyaḥएवम्evamवेदveda

अन्वय

तस्य अक्षिणी यथा कप्यासम् पुण्डरीकम् [अस्ति], एवम् [स्तः] । तस्य उत् इति नाम [अस्ति] । सः एषः सर्वेभ्यः पाप्मभ्यः उदितः [अस्ति] । यः एवम् वेद, [सः] सर्वेभ्यः पाप्मभ्यः उदेति ह वै ।

Passage 6.8

तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥

पदच्छेद

तस्यtasyaऋक्ṛkचcaसामsāmaचcaगेष्णौgeṣṇauतस्मात्tasmātउद्गीथःudgīthaḥतस्मात्tasmātतुtuएवevaउद्गाताudgātāएतस्यetasyaहिhiगाताgātāसःsaḥएषःeṣaḥयेyeचcaअमुष्मात्amuṣmātपराञ्चःparāñcaḥलोकाःlokāḥतेषाम्teṣāmचcaईष्टेīṣṭeदेवकामानाम्devakāmānāmचcaइतिitiअधिदैवतम्adhidaivatam

अन्वय

तस्य ऋक् च साम च गेष्णौ [स्तः] । तस्मात् [सः] उद्गीथः [अस्ति] । तस्मात् तु एव उद्गाता [इति उच्यते]; हि [उद्गाता] एतस्य गाता [अस्ति] । ये च अमुष्मात् पराञ्चः लोकाः [सन्ति], तेषाम् च देवकामानाम् च सः एषः ईष्टे इति । अधिदैवतम् [उक्तम्] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 1, खण्ड 6

Read the whole section →