Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 10

संस्कृत

Passage 123.1

आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयाँसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥

पदच्छेद

आपःāpaḥवावvāvaअन्नात्annātभूयःbhūyaḥतस्मात्tasmātयदाyadāसुवृष्टिःsuvṛṣṭiḥनnaभवतिbhavatiव्याधीयन्तेvyādhīyanteप्राणाःprāṇāḥअन्नम्annamकनीयःkanīyaḥभविष्यतिbhaviṣyatiइतिitiअथathaयदाyadāसुवृष्टिःsuvṛṣṭiḥभवतिbhavatiआनन्दिनःānandinaḥप्राणाःprāṇāḥभवन्तिbhavantiअन्नम्annamबहुbahuभविष्यतिbhaviṣyatiइतिitiआपःāpaḥएवevaइमाःimāḥमूर्ताःmūrtāḥयाyāइयम्iyamपृथिवीpṛthivīयत्yatअन्तरिक्षम्antarikṣamयत्yatद्यौःdyauḥयत्yatपर्वताःparvatāḥयत्yatदेवमनुष्याःdevamanuṣyāḥयत्yatपशवःpaśavaḥचcaवयांसिvayāṃsiचcaतृणवनस्पतयःtṛṇavanaspatayaḥश्वापदानिśvāpadāniआकीटपतङ्गपिपीलकम्ākīṭapataṅgapipīlakamआपःāpaḥएवevaइमाःimāḥमूर्ताःmūrtāḥअपःapaḥउपास्स्वupāssvaइतिiti

Passage 123.2

स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाँस्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति । योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥअपःapaḥब्रह्मbrahmaइतिitiउपास्तेupāsteआप्नोतिāpnotiसर्वान्sarvānकामान्kāmānतृप्तिमान्tṛptimānभवतिbhavatiयावत्yāvatअपाम्apāmगतम्gatamतत्रtatraअस्यasyaयथाकामचारःyathākāmacāraḥभवतिbhavatiयःyaḥअपःapaḥब्रह्मbrahmaइतिitiउपास्तेupāsteअस्तिastiभगवःbhagavaḥअद्भ्यःadbhyaḥभूयःbhūyaḥइतिitiअद्भ्यःadbhyaḥवावvāvaभूयःbhūyaḥअस्तिastiइतिitiतत्tatमेmeभगवान्bhagavānब्रवीतुbravītuइतिiti

अन्वय

सः यः अपः ब्रह्म इति उपास्ते, [सः] सर्वान् कामान् आप्नोति, तृप्तिमान् भवति । यावत् अपाम् गतम् [अस्ति], तत्र अस्य यथाकामचारः भवति—यः अपः ब्रह्म इति उपास्ते । [नारदः], भगवः, अद्भ्यः भूयः अस्ति इति [पप्रच्छ] । [सनत्कुमारः], अद्भ्यः वाव भूयः अस्ति इति [उवाच] । [नारदः], तत् मे भगवान् ब्रवीतु इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 10

Read the whole section →