Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 20

संस्कृत

Passage 33.1

अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥

पदच्छेद

अग्निःagniḥहिङ्कारःhiṅkāraḥवायुःvāyuḥप्रस्तावःprastāvaḥआदित्यःādityaḥउद्गीथःudgīthaḥनक्षत्राणिnakṣatrāṇiप्रतिहारःpratihāraḥचन्द्रमाःcandramāḥनिधनम्nidhanamएतत्etatराजनम्rājanamदेवतासुdevatāsuप्रोतम्protam

अन्वय

अग्निः हिङ्कारः [अस्ति]; वायुः प्रस्तावः [अस्ति]; आदित्यः उद्गीथः [अस्ति]; नक्षत्राणि प्रतिहारः [सन्ति]; चन्द्रमा निधनम् [अस्ति] । एतत् राजनम् देवतासु प्रोतम् [अस्ति] ।

Passage 33.2

स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाꣳसलोकताꣳसर्ष्टिताꣳसायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥएवम्evamएतत्etatराजनम्rājanamदेवतासुdevatāsuप्रोतम्protamवेदvedaएतासाम्etāsāmएवevaदेवतानाम्devatānāmसलोकताम्salokatāmसर्ष्टिताम्sarṣṭitāmसायुज्यम्sāyujyamगच्छतिgacchatiसर्वम्sarvamआयुःāyuḥएतिetiज्योक्jyokजीवतिjīvatiमहान्mahānप्रजयाprajayāपशुभिःpaśubhiḥभवतिbhavatiमहान्mahānकीर्त्याkīrtyāब्राह्मणान्brāhmaṇānनnaनिन्देत्nindetतत्tatव्रतम्vratam

अन्वय

सः यः एवम् देवतासु प्रोतम् एतत् राजनम् वेद, [सः] एतासाम् एव देवतानाम् सलोकताम् सर्ष्टिताम् सायुज्यम् गच्छति, सर्वम् आयुः एति, ज्योक् जीवति, प्रजया पशुभिः महान् भवति, कीर्त्या महान् [भवति] । ब्राह्मणान् न निन्देत्; तत् व्रतम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 20

Read the whole section →