Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 8

संस्कृत

Passage 147.1

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आनखेभ्यः प्रतिरूपमिति ॥ १ ॥

पदच्छेद

उदशरावेudaśarāveआत्मानम्ātmānamअवेक्ष्यavekṣyaयत्yatआत्मनःātmanaḥनnaविजानीथःvijānīthaḥतत्tatमेmeप्रब्रूतम्prabrūtamइतिitiतौtauहhaउदशरावेudaśarāveअवेक्षाम्avekṣāmचक्रातेcakrāteतौtauहhaप्रजापतिःprajāpatiḥउवाचuvācaकिम्kimपश्यथःpaśyathaḥइतिitiतौtauहhaऊचतुःūcatuḥसर्वम्sarvamएवevaइदम्idamआवाम्āvāmभगवःbhagavaḥआत्मानम्ātmānamपश्यावःpaśyāvaḥआāलोमभ्यःlomabhyaḥआāनखेभ्यःnakhebhyaḥप्रतिरूपम्pratirūpamइतिiti

अन्वय

उदशरावे आत्मानम् अवेक्ष्य यत् आत्मनः न विजानीथः, तत् मे प्रब्रूतम् इति [उवाच] । तौ ह उदशरावे अवेक्षाञ्चक्राते । प्रजापतिः तौ ह उवाच—किम् पश्यथः इति । तौ ह ऊचतुः—भगवः, आवाम् सर्वम् एव इदम् आत्मानम् आ लोमभ्यः आ नखेभ्यः प्रतिरूपम् पश्यावः इति ।

Passage 147.2

तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥

पदच्छेद

तौtauहhaप्रजापतिःprajāpatiḥउवाचuvācaसाध्वलङ्कृतौsādhvalaṅkṛtauसुवसनौsuvasanauपरिष्कृतौpariṣkṛtauभूत्वाbhūtvāउदशरावेudaśarāveअवेक्षेथाम्avekṣethāmइतिitiतौtauहhaसाध्वलङ्कृतौsādhvalaṅkṛtauसुवसनौsuvasanauपरिष्कृतौpariṣkṛtauभूत्वाbhūtvāउदशरावेudaśarāveअवेक्षाम्avekṣāmचक्रातेcakrāteतौtauहhaप्रजापतिःprajāpatiḥउवाचuvācaकिम्kimपश्यथःpaśyathaḥइतिiti

अन्वय

प्रजापतिः तौ ह उवाच—साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा उदशरावे अवेक्षेथाम् इति । तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा उदशरावे अवेक्षाञ्चक्राते । प्रजापतिः तौ ह उवाच—किम् पश्यथः इति ।

Passage 147.3

तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥

पदच्छेद

तौtauहhaऊचतुःūcatuḥयथाyathāएवevaइदम्idamआवाम्āvāmभगवःbhagavaḥसाध्वलङ्कृतौsādhvalaṅkṛtauसुवसनौsuvasanauपरिष्कृतौpariṣkṛtauस्वःsvaḥएवम्evamएवevaइमौimauभगवःbhagavaḥसाध्वलङ्कृतौsādhvalaṅkṛtauसुवसनौsuvasanauपरिष्कृतौpariṣkṛtauइतिitiएषःeṣaḥआत्माātmāइतिitiहhaउवाचuvācaएतत्etatअमृतम्amṛtamअभयम्abhayamएतत्etatब्रह्मbrahmaइतिitiतौtauहhaशान्तहृदयौśāntahṛdayauप्रवव्रजतुःpravavrajatuḥ

अन्वय

तौ ह ऊचतुः—भगवः, यथा एव इदम् आवाम् साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्वः, एवम् एव भगवः इमौ साध्वलङ्कृतौ सुवसनौ परिष्कृतौ [स्तः] इति । एषः आत्मा इति ह उवाच; एतत् अमृतम् अभयम्, एतत् ब्रह्म इति । तौ ह शान्तहृदयौ प्रवव्रजतुः ।

Passage 147.4

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥

पदच्छेद

तौtauहhaअन्वीक्ष्यanvīkṣyaप्रजापतिःprajāpatiḥउवाचuvācaअनुपलभ्यanupalabhyaआत्मानम्ātmānamअननुविद्यananuvidyaव्रजतःvrajataḥयतरेyatareएतदुपनिषदःetadupaniṣadaḥभविष्यन्तिbhaviṣyantiदेवाःdevāḥवाvāअसुराःasurāḥवाvāतेteपराभविष्यन्तिparābhaviṣyantiइतिitiसःsaḥहhaशान्तहृदयःśāntahṛdayaḥएवevaविरोचनःvirocanaḥअसुरान्asurānजगामjagāmaतेभ्यःtebhyaḥहhaएताम्etāmउपनिषदम्upaniṣadamप्रोवाचprovācaआत्माātmāएवevaइहihaमहय्यःmahayyaḥआत्माātmāपरिचर्यःparicaryaḥआत्मानम्ātmānamएवevaइहihaमहयन्mahayanआत्मानम्ātmānamपरिचरन्paricaranउभौubhauलोकौlokauअवाप्नोतिavāpnotiइमम्imamचcaअमुम्amumचcaइतिiti

अन्वय

प्रजापतिः तौ ह अन्वीक्ष्य उवाच—आत्मानम् अनुपलभ्य अननुविद्य व्रजतः । यतरे देवाः वा असुराः वा एतदुपनिषदः भविष्यन्ति, ते पराभविष्यन्ति इति । सः ह विरोचनः शान्तहृदयः एव असुरान् जगाम । तेभ्यः ह एताम् उपनिषदम् प्रोवाच—इह आत्मा एव महय्यः; आत्मा परिचर्यः [अस्ति] । इह आत्मानम् एव महयन् आत्मानम् परिचरन् उभौ लोकौ इमम् च अमुम् च अवाप्नोति इति ।

Passage 147.5

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥

पदच्छेद

तस्मात्tasmātअपिapiअद्यadyaइहihaअददानम्adadānamअश्रद्दधानम्aśraddadhānamअयजमानम्ayajamānamआहुःāhuḥआसुरःāsuraḥबतbataइतिitiअसुराणाम्asurāṇāmहिhiएषाeṣāउपनिषत्upaniṣatप्रेतस्यpretasyaशरीरम्śarīramभिक्षयाbhikṣayāवसनेनvasanenaअलङ्कारेणalaṅkāreṇaइतिitiसंस्कुर्वन्तिsaṃskurvantiएतेनetenaहिhiअमुम्amumलोकम्lokamजेष्यन्तःjeṣyantaḥमन्यन्तेmanyante

अन्वय

तस्मात् अपि अद्य इह अददानम् अश्रद्दधानम् अयजमानम् आसुरः बत इति आहुः; हि एषा असुराणाम् उपनिषत् [अस्ति] । प्रेतस्य शरीरम् भिक्षया वसनेन अलङ्कारेण इति संस्कुर्वन्ति; हि एतेन अमुम् लोकम् जेष्यन्तः [इति] मन्यन्ते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 8

Read the whole section →