Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 21

संस्कृत

Passage 34.1

त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयाꣳसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १ ॥

पदच्छेद

त्रयीtrayīविद्याvidyāहिङ्कारःhiṅkāraḥत्रयःtrayaḥइमेimeलोकाःlokāḥसःsaḥप्रस्तावःprastāvaḥअग्निःagniḥवायुःvāyuḥआदित्यःādityaḥसःsaḥउद्गीथःudgīthaḥनक्षत्राणिnakṣatrāṇiवयांसिvayāṃsiमरीचयःmarīcayaḥसःsaḥप्रतिहारःpratihāraḥसर्पाःsarpāḥगन्धर्वाःgandharvāḥपितरःpitaraḥतत्tatनिधनम्nidhanamएतत्etatसामsāmaसर्वस्मिन्sarvasminप्रोतम्protam

अन्वय

त्रयी विद्या हिङ्कारः [अस्ति] । त्रयः इमे लोकाः सः प्रस्तावः [अस्ति] । अग्निः वायुः आदित्यः सः उद्गीथः [अस्ति] । नक्षत्राणि वयांसि मरीचयः सः प्रतिहारः [अस्ति] । सर्पाः गन्धर्वाः पितरः तत् निधनम् [अस्ति] । एतत् साम सर्वस्मिन् प्रोतम् [अस्ति] ।

Passage 34.2

स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वꣳ ह भवति ॥ २ ॥

पदच्छेद

सःsaḥयःyaḥएवम्evamएतत्etatसामsāmaसर्वस्मिन्sarvasminप्रोतम्protamवेदvedaसर्वम्sarvamहhaभवतिbhavati

अन्वय

सः यः एवम् सर्वस्मिन् प्रोतम् एतत् साम वेद, [सः] ह सर्वम् भवति ।

Passage 34.3

तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ ३ ॥

पदच्छेद

तत्tatएषःeṣaḥश्लोकःślokaḥयानिyāniपञ्चधाpañcadhāत्रीणिtrīṇiत्रीणिtrīṇiतेभ्यःtebhyaḥनnaज्यायःjyāyaḥपरम्paramअन्यत्anyatअस्तिasti

अन्वय

तत् एषः श्लोकः [भवति]-यानि पञ्चधा त्रीणि त्रीणि [सन्ति], तेभ्यः ज्यायः परम् अन्यत् न अस्ति ।

Passage 34.4

यस्तद्वेद स वेद सर्वꣳसर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रतम् ॥ ४ ॥

पदच्छेद

यःyaḥतत्tatवेदvedaसःsaḥवेदvedaसर्वम्sarvamसर्वाःsarvāḥदिशःdiśaḥबलिम्balimअस्मैasmaiहरन्तिharantiसर्वम्sarvamअस्मिasmiइतिitiउपासीतupāsītaतत्tatव्रतम्vratamतत्tatव्रतम्vratam

अन्वय

यः तत् वेद, सः सर्वम् वेद । सर्वाः दिशः अस्मै बलिम् हरन्ति । सर्वम् अस्मि इति उपासीत । तत् व्रतम् [अस्ति]; तत् व्रतम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 21

Read the whole section →