Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 2

संस्कृत

Passage 75.1

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaकिम्kimमेmeअन्नम्annamभविष्यतिbhaviṣyatiइतिitiयत्yatकिम्kimचित्citइदम्idamआāश्वभ्यःśvabhyaḥआāशकुनिभ्यःśakunibhyaḥइतिitiहhaऊचुःūcuḥतत्tatवैvaiएतत्etatअनस्यanasyaअन्नम्annamअनःanaḥहhaवैvaiनामnāmaप्रत्यक्षम्pratyakṣamनnaहhaवैvaiएवंविदिevaṃvidiकिम्kimचनcanaअनन्नम्anannamभवतिbhavatiइतिiti

अन्वय

सः ह उवाच—मे किम् अन्नम् भविष्यति इति । [इतरे प्राणाः] ह ऊचुः—यत् किञ्चित् इदम् आ श्वभ्यः आ शकुनिभ्यः [अन्नम् अस्ति] इति । तत् वा एतत् अनस्य अन्नम् [अस्ति] । अनः ह वै प्रत्यक्षम् नाम [अस्ति] । एवम् विदि ह वा किञ्चन अनन्नम् न भवति इति ।

Passage 75.2

स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaकिम्kimमेmeवासःvāsaḥभविष्यतिbhaviṣyatiइतिitiआपःāpaḥइतिitiहhaऊचुःūcuḥतस्मात्tasmātवैvaiएतत्etatअशिष्यन्तःaśiṣyantaḥपुरस्तात्purastātचcaउपरिष्टात्upariṣṭātचcaअद्भिःadbhiḥपरिदधतिparidadhatiलम्भुकःlambhukaḥहhaवासःvāsaḥभवतिbhavatiअनग्नःanagnaḥहhaभवतिbhavati

अन्वय

सः ह उवाच—मे किम् वासः भविष्यति इति । [इतरे प्राणाः] ह ऊचुः—आपः इति । तस्मात् वा एतत् अशिष्यन्तः पुरस्तात् च उपरिष्टात् च अद्भिः परिदधति । [एवम् विद्] ह वासः लम्भुकः भवति; [सः] ह अनग्नः भवति ।

Passage 75.3

तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥

पदच्छेद

तत्tatहhaएतत्etatसत्यकामःsatyakāmaḥजाबालःjābālaḥगोश्रुतयेgośrutayeवैयाघ्रपद्यायvaiyāghrapadyāyaउक्त्वाuktvāउवाचuvācaयदिyadiअपिapiएनत्enatशुष्कायśuṣkāyaस्थाणवेsthāṇaveब्रूयात्brūyātजायेरन्jāyeranएवevaअस्मिन्asminशाखाःśākhāḥप्ररोहेयुःpraroheyuḥपलाशानिpalāśāniइतिiti

अन्वय

सत्यकामः ह जाबालः तत् एतत् गोश्रुतये वैयाघ्रपद्याय उक्त्वा उवाच—यदि अपि एतत् शुष्काय स्थाणवे ब्रूयात्, अस्मिन् [स्थाणौ] शाखाः जायेरन् एव; पलाशानि प्ररोहेयुः इति ।

Passage 75.4

अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याँ रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥

पदच्छेद

अथathaयदिyadiमहत्mahatजिगमिषेत्jigamiṣetअमावास्यायाम्amāvāsyāyāmदीक्षित्वाdīkṣitvāपौर्णमास्याम्paurṇamāsyāmरात्रौrātrauसर्वौषधस्यsarvauṣadhasyaमन्थम्manthamदधिमधुनोःdadhimadhunoḥउपमथ्यupamathyaज्येष्ठायjyeṣṭhāyaश्रेष्ठायśreṣṭhāyaस्वाहाsvāhāइतिitiअग्नौagnauआज्यस्यājyasyaहुत्वाhutvāमन्थेmantheसम्पातम्sampātamअवनयेत्avanayet

अन्वय

अथ यदि [साधकः] महत् जिगमिषेत्, अमावास्यायाम् दीक्षित्वा पौर्णमास्याम् रात्रौ दधिमधुनोः सर्वौषधस्य मन्थम् उपमथ्य, ज्येष्ठाय श्रेष्ठाय स्वाहा इति अग्नौ आज्यस्य [अंशम्] हुत्वा मन्थे सम्पातम् अवनयेत् ।

Passage 75.5

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥

पदच्छेद

वसिष्ठायvasiṣṭhāyaस्वाहाsvāhāइतिitiअग्नौagnauआज्यस्यājyasyaहुत्वाhutvāमन्थेmantheसम्पातम्sampātamअवनयेत्avanayetप्रतिष्ठायैpratiṣṭhāyaiस्वाहाsvāhāइतिitiअग्नौagnauआज्यस्यājyasyaहुत्वाhutvāमन्थेmantheसम्पातम्sampātamअवनयेत्avanayetसम्पदेsampadeस्वाहाsvāhāइतिitiअग्नौagnauआज्यस्यājyasyaहुत्वाhutvāमन्थेmantheसम्पातम्sampātamअवनयेत्avanayetआयतनायāyatanāyaस्वाहाsvāhāइतिitiअग्नौagnauआज्यस्यājyasyaहुत्वाhutvāमन्थेmantheसम्पातम्sampātamअवनयेत्avanayet

अन्वय

वसिष्ठाय स्वाहा इति अग्नौ आज्यस्य [अंशम्] हुत्वा मन्थे सम्पातम् अवनयेत् । प्रतिष्ठायै स्वाहा इति अग्नौ आज्यस्य [अंशम्] हुत्वा मन्थे सम्पातम् अवनयेत् । सम्पदे स्वाहा इति अग्नौ आज्यस्य [अंशम्] हुत्वा मन्थे सम्पातम् अवनयेत् । आयतनाय स्वाहा इति अग्नौ आज्यस्य [अंशम्] हुत्वा मन्थे सम्पातम् अवनयेत् ।

Passage 75.6

अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदँ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यँ श्रैष्ठ्यँ राज्यमाधिपत्यं गमयत्वहमेवेदँ सर्वमसानीति ॥ ६ ॥

पदच्छेद

अथathaप्रतिसृप्यpratisṛpyaअञ्जलौañjalauमन्थम्manthamआधायādhāyaजपतिjapatiअमःamaḥनामnāmaअसिasiअमाamāहिhiतेteसर्वम्sarvamइदम्idamसःsaḥहिhiज्येष्ठःjyeṣṭhaḥश्रेष्ठःśreṣṭhaḥराजाrājāअधिपतिःadhipatiḥसःsaḥमाmāज्यैष्ठ्यम्jyaiṣṭhyamश्रैष्ठ्यम्śraiṣṭhyamराज्यम्rājyamआधिपत्यम्ādhipatyamगमयतुgamayatuअहम्ahamएवevaइदम्idamसर्वम्sarvamअसानिasāniइतिiti

अन्वय

अथ प्रतिसृप्य अञ्जलौ मन्थम् आधाय जपति—अमः नाम असि । हि ते अमा इदम् सर्वम् [अस्ति] । हि सः ज्येष्ठः श्रेष्ठः राजा अधिपतिः [अस्ति] । सः मा ज्यैष्ठ्यम् श्रैष्ठ्यम् राज्यम् आधिपत्यम् गमयतु । अहम् एव इदम् सर्वम् असानि इति ।

Passage 75.7

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठँ सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति ॥ ७ ॥

पदच्छेद

अथathaखलुkhaluएतयाetayāऋचाṛcāपच्छःpacchaḥआचामतिācāmatiतत्tatसवितुःsavituḥवृणीमहेvṛṇīmaheइतिitiआचामतिācāmatiवयम्vayamदेवस्यdevasyaभोजनम्bhojanamइतिitiआचामतिācāmatiश्रेष्ठम्śreṣṭhamसर्वधातमम्sarvadhātamamइतिitiआचामतिācāmatiतुरम्turamभगस्यbhagasyaधीमहिdhīmahiइतिitiसर्वम्sarvamपिबतिpibati

अन्वय

अथ खलु एतया ऋचा पच्छः आचामति । तत् सवितुः [भोजनम्] वृणीमहे इति आचामति । वयम् देवस्य भोजनम् [वृणीमहे] इति आचामति । श्रेष्ठम् सर्वधातमम् [भोजनम् वृणीमहे] इति आचामति । तुरम् [शीघ्रम्] भगस्य [स्वरूपम् वयम्] धीमहि इति सर्वम् [मन्थम्] पिबति ।

Passage 75.8

निर्णिज्य कँसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ८ ॥

पदच्छेद

निर्णिज्यnirṇijyaकंसम्kaṃsamचमसम्camasamवाvāपश्चात्paścātअग्नेःagneḥसंविशतिsaṃviśatiचर्मणिcarmaṇiवाvāस्थण्डिलेsthaṇḍileवाvāवाचंयमःvācaṃyamaḥअप्रसाहःaprasāhaḥसःsaḥयदिyadiस्त्रियम्striyamपश्येत्paśyetसमृद्धम्samṛddhamकर्मkarmaइतिitiविद्यात्vidyāt

अन्वय

कंसम् चमसम् वा निर्णिज्य अग्नेः पश्चात् चर्मणि वा स्थण्डिले वा वाचंयमः अप्रसाहः [सन्] संविशति । सः यदि स्त्रियम् पश्येत्, [तदा] कर्म समृद्धम् [अस्ति] इति विद्यात् ।

Passage 75.9

तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियँ स्वप्नेषु पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ९ ॥

पदच्छेद

तत्tatएषःeṣaḥश्लोकःślokaḥयदाyadāकर्मसुkarmasuकाम्येषुkāmyeṣuस्त्रियम्striyamस्वप्नेषुsvapneṣuपश्यन्तिpaśyantiसमृद्धिम्samṛddhimतत्रtatraजानीयात्jānīyātतस्मिन्tasminस्वप्ननिदर्शनेsvapnanidarśaneतस्मिन्tasminस्वप्ननिदर्शनेsvapnanidarśane

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 2

Read the whole section →