Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 9

संस्कृत

Passage 46.1

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

पदच्छेद

अथathaयत्yatचतुर्थम्caturthamअमृतम्amṛtamतत्tatमरुतःmarutaḥउपजीवन्तिupajīvantiसोमेनsomenaमुखेनmukhenaनnaवैvaiदेवाःdevāḥअश्नन्तिaśnantiनnaपिबन्तिpibantiएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यन्तिtṛpyanti

अन्वय

अथ यत् चतुर्थम् अमृतम् [अस्ति], तत् मरुतः सोमेन मुखेन उपजीवन्ति । वै देवाः न अश्नन्ति, न पिबन्ति; एतत् एव अमृतम् दृष्ट्वा तृप्यन्ति ।

Passage 46.2

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥

पदच्छेद

तेteएतत्etatएवevaरूपम्rūpamअभिसंविशन्तिabhisaṃviśantiएतस्मात्etasmātरूपात्rūpātउद्यन्तिudyanti

अन्वय

ते एतत् एव रूपम् अभिसंविशन्ति; एतस्मात् रूपात् उद्यन्ति ।

Passage 46.3

स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamअमृतम्amṛtamवेदvedaमरुताम्marutāmएवevaएकःekaḥभूत्वाbhūtvāसोमेनsomenaएवevaमुखेनmukhenaएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यतिtṛpyatiसःsaḥएतत्etatएवevaरूपम्rūpamअभिसंविशतिabhisaṃviśatiएतस्मात्etasmātरूपात्rūpātउदेतिudeti

अन्वय

यः एतत् अमृतम् एवम् वेद, सः मरुताम् एव एकः भूत्वा सोमेन एव मुखेन एतत् एव अमृतम् दृष्ट्वा तृप्यति । सः एतत् एव रूपम् अभिसंविशति; एतस्मात् रूपात् उदेति ।

Passage 46.4

स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ४ ॥

पदच्छेद

सःsaḥयावत्yāvatआदित्यःādityaḥपश्चात्paścātउदेताudetāपुरस्तात्purastātअस्तमेताastametāद्विःdviḥतावत्tāvatउत्तरतःuttarataḥउदेताudetāदक्षिणतःdakṣiṇataḥअस्तमेताastametāमरुताम्marutāmएवevaतावत्tāvatआधिपत्यम्ādhipatyamस्वाराज्यम्svārājyamपर्येताparyetā

अन्वय

यावत् आदित्यः पश्चात् उदेता, पुरस्तात् अस्तमेता, [ततः] द्विः तावत् [आदित्यः] उत्तरतः उदेता, दक्षिणतः अस्तमेता, सः तावत् मरुताम् एव आधिपत्यम् स्वाराज्यम् पर्येता ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 9

Read the whole section →