Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 2

संस्कृत

Passage 141.1

स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥

पदच्छेद

सःsaḥयदिyadiपितृलोककामःpitṛlokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaपितरःpitaraḥसमुत्तिष्ठन्तिsamuttiṣṭhantiतेनtenaपितृलोकेनpitṛlokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

सः यदि पितृलोककामः भवति, अस्य पितरः सङ्कल्पात् एव समुत्तिष्ठन्ति; तेन पितृलोकेन सम्पन्नः महीयते ।

Passage 141.2

अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥

पदच्छेद

अथathaयदिyadiमातृलोककामःmātṛlokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaमातरःmātaraḥसमुत्तिष्ठन्तिsamuttiṣṭhantiतेनtenaमातृलोकेनmātṛlokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] मातृलोककामः भवति, अस्य मातरः सङ्कल्पात् एव समुत्तिष्ठन्ति; तेन मातृलोकेन सम्पन्नः महीयते ।

Passage 141.3

अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥

पदच्छेद

अथathaयदिyadiभ्रातृलोककामःbhrātṛlokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaभ्रातरःbhrātaraḥसमुत्तिष्ठन्तिsamuttiṣṭhantiतेनtenaभ्रातृलोकेनbhrātṛlokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] भ्रातृलोककामः भवति, अस्य भ्रातरः सङ्कल्पात् एव समुत्तिष्ठन्ति; तेन भ्रातृलोकेन सम्पन्नः महीयते ।

Passage 141.4

अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥

पदच्छेद

अथathaयदिyadiस्वसृलोककामःsvasṛlokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaस्वसारःsvasāraḥसमुत्तिष्ठन्तिsamuttiṣṭhantiतेनtenaस्वसृलोकेनsvasṛlokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] स्वसृलोककामः भवति, अस्य स्वसारः सङ्कल्पात् एव समुत्तिष्ठन्ति; तेन स्वसृलोकेन सम्पन्नः महीयते ।

Passage 141.5

अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥

पदच्छेद

अथathaयदिyadiसखिलोककामःsakhilokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaसखायःsakhāyaḥसमुत्तिष्ठन्तिsamuttiṣṭhantiतेनtenaसखिलोकेनsakhilokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] सखिलोककामः भवति, अस्य सखायः सङ्कल्पात् एव समुत्तिष्ठन्ति; तेन सखिलोकेन सम्पन्नः महीयते ।

Passage 141.6

अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥

पदच्छेद

अथathaयदिyadiगन्धमाल्यलोककामःgandhamālyalokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaगन्धमाल्येgandhamālyeसमुत्तिष्ठतःsamuttiṣṭhataḥतेनtenaगन्धमाल्यलोकेनgandhamālyalokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] गन्धमाल्यलोककामः भवति, अस्य गन्धमाल्ये सङ्कल्पात् एव समुत्तिष्ठतः; तेन गन्धमाल्यलोकेन सम्पन्नः महीयते ।

Passage 141.7

अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥

पदच्छेद

अथathaयदिyadiअन्नपानलोककामःannapānalokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaअन्नपानेannapāneसमुत्तिष्ठतःsamuttiṣṭhataḥतेनtenaअन्नपानलोकेनannapānalokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] अन्नपानलोककामः भवति, अस्य अन्नपाने सङ्कल्पात् एव समुत्तिष्ठतः; तेन अन्नपानलोकेन सम्पन्नः महीयते ।

Passage 141.8

अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥

पदच्छेद

अथathaयदिyadiगीतवादित्रलोककामःgītavāditralokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaगीतवादित्रेgītavāditreसमुत्तिष्ठतःsamuttiṣṭhataḥतेनtenaगीतवादित्रलोकेनgītavāditralokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] गीतवादित्रलोककामः भवति, अस्य गीतवादित्रे सङ्कल्पात् एव समुत्तिष्ठतः; तेन गीतवादित्रलोकेन सम्पन्नः महीयते ।

Passage 141.9

अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥

पदच्छेद

अथathaयदिyadiस्त्रीलोककामःstrīlokakāmaḥभवतिbhavatiसङ्कल्पात्saṅkalpātएवevaअस्यasyaस्त्रियःstriyaḥसमुत्तिष्ठन्तिsamuttiṣṭhantiतेनtenaस्त्रीलोकेनstrīlokenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

अथ यदि [सः] स्त्रीलोककामः भवति, अस्य स्त्रियः सङ्कल्पात् एव समुत्तिष्ठन्ति; तेन स्त्रीलोकेन सम्पन्नः महीयते ।

Passage 141.10

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥

पदच्छेद

यम्yamयम्yamअन्तम्antamअभिकामःabhikāmaḥभवतिbhavatiयम्yamकामम्kāmamकामयतेkāmayateसःsaḥअस्यasyaसङ्कल्पात्saṅkalpātएवevaसमुत्तिष्ठतिsamuttiṣṭhatiतेनtenaसम्पन्नःsampannaḥमहीयतेmahīyate

अन्वय

यम् यम् अन्तम् अभिकामः भवति, यम् कामम् कामयते, सः अस्य सङ्कल्पात् एव समुत्तिष्ठति; तेन सम्पन्नः महीयते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 2

Read the whole section →