Sunday Meditation· Open to Everyone

अध्याय 3, खण्ड 8

संस्कृत

Passage 45.1

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥

पदच्छेद

अथathaयत्yatतृतीयम्tṛtīyamअमृतम्amṛtamतत्tatआदित्याःādityāḥउपजीवन्तिupajīvantiवरुणेनvaruṇenaमुखेनmukhenaनnaवैvaiदेवाःdevāḥअश्नन्तिaśnantiनnaपिबन्तिpibantiएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यन्तिtṛpyanti

अन्वय

अथ यत् तृतीयम् अमृतम् [अस्ति], तत् आदित्याः वरुणेन मुखेन उपजीवन्ति । वै देवाः न अश्नन्ति, न पिबन्ति; एतत् एव अमृतम् दृष्ट्वा तृप्यन्ति ।

Passage 45.2

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥

पदच्छेद

तेteएतत्etatएवevaरूपम्rūpamअभिसंविशन्तिabhisaṃviśantiएतस्मात्etasmātरूपात्rūpātउद्यन्तिudyanti

अन्वय

ते एतत् एव रूपम् अभिसंविशन्ति; एतस्मात् रूपात् उद्यन्ति ।

Passage 45.3

स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएतत्etatएवम्evamअमृतम्amṛtamवेदvedaआदित्यानाम्ādityānāmएवevaएकःekaḥभूत्वाbhūtvāवरुणेनvaruṇenaएवevaमुखेनmukhenaएतत्etatएवevaअमृतम्amṛtamदृष्ट्वाdṛṣṭvāतृप्यतिtṛpyatiसःsaḥएतत्etatएवevaरूपम्rūpamअभिसंविशतिabhisaṃviśatiएतस्मात्etasmātरूपात्rūpātउदेतिudeti

अन्वय

यः एतत् अमृतम् एवम् वेद, सः आदित्यानाम् एव एकः भूत्वा वरुणेन एव मुखेन एतत् एव अमृतम् दृष्ट्वा तृप्यति । सः एतत् एव रूपम् अभिसंविशति; एतस्मात् रूपात् उदेति ।

Passage 45.4

स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यꣳस्वाराज्यं पर्येता ॥ ४ ॥

पदच्छेद

सःsaḥयावत्yāvatआदित्यःādityaḥदक्षिणतःdakṣiṇataḥउदेताudetāउत्तरतःuttarataḥअस्तमेताastametāद्विःdviḥतावत्tāvatपश्चात्paścātउदेताudetāपुरस्तात्purastātअस्तमेताastametāआदित्यानाम्ādityānāmएवevaतावत्tāvatआधिपत्यम्ādhipatyamस्वाराज्यम्svārājyamपर्येताparyetā

अन्वय

यावत् आदित्यः दक्षिणतः उदेता, उत्तरतः अस्तमेता, [ततः] द्विः तावत् [आदित्यः] पश्चात् उदेता, पुरस्तात् अस्तमेता, सः तावत् आदित्यानाम् एव आधिपत्यम् स्वाराज्यम् पर्येता ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 3, खण्ड 8

Read the whole section →