Sunday Meditation· Open to Everyone

अध्याय 4, खण्ड 4

संस्कृत

Passage 60.1

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रोन्वहमस्मीति ॥ १ ॥

पदच्छेद

सत्यकामःsatyakāmaḥहhaजाबालःjābālaḥजबालाम्jabālāmमातरम्mātaramआमन्त्रयाम्āmantrayāmचक्रेcakreब्रह्मचर्यम्brahmacaryamभवतिbhavatiविवत्स्यामिvivatsyāmiकिम्गोत्रःkimgotraḥनुnuअहम्ahamअस्मिasmiइतिiti

अन्वय

जाबालः सत्यकामः ह मातरम् जबालाम् आमन्त्रयाञ्चक्रे—भवति, [अहम्] ब्रह्मचर्यम् विवत्स्यामि; अहम् नु किङ्गोत्रः अस्मि इति ।

Passage 60.2

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥

पदच्छेद

साsāहhaएनम्enamउवाचuvācaनnaअहम्ahamएतत्etatवेदvedaतातtātaयद्गोत्रःyadgotraḥत्वम्tvamअसिasiबहुbahuअहम्ahamचरन्तीcarantīपरिचारिणीparicāriṇīयौवनेyauvaneत्वाम्tvāmअलभेalabheसाsāअहम्ahamएतत्etatनnaवेदvedaयद्गोत्रःyadgotraḥत्वम्tvamअसिasiजबालाjabālāतुtuनामnāmaअहम्ahamअस्मिasmiसत्यकामःsatyakāmaḥनामnāmaत्वम्tvamअसिasiसःsaḥसत्यकामःsatyakāmaḥएवevaजाबालःjābālaḥब्रवीथाःbravīthāḥइतिiti

Passage 60.3

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥

पदच्छेद

सःsaḥहhaहारिद्रुमतम्hāridrumatamगौतमम्gautamamएत्यetyaउवाचuvācaब्रह्मचर्यम्brahmacaryamभगवतिbhagavatiवत्स्यामिvatsyāmiउपेयाम्upeyāmभगवन्तम्bhagavantamइतिiti

अन्वय

सः ह हारिद्रुमतम् गौतमम् एत्य उवाच—भगवति [त्वयि अहम्] ब्रह्मचर्यम् वत्स्यामि; भगवन्तम् उपेयाम् इति ।

Passage 60.4

तꣳ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरꣳ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहꣳ सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥

पदच्छेद

तम्tamहhaउवाचuvācaकिम्गोत्रःkimgotraḥनुnuसोम्यsomyaअसिasiइतिitiसःsaḥहhaउवाचuvācaनnaअहम्ahamएतत्etatवेदvedaभोःbhoḥयद्गोत्रःyadgotraḥअहम्ahamअस्मिasmiअपृच्छम्apṛcchamमातरम्mātaramसाsāमाmāप्रत्यब्रवीत्pratyabravītबहुbahuअहम्ahamचरन्तीcarantīपरिचरिणीparicariṇīयौवनेyauvaneत्वाम्tvāmअलभेalabheसाsāअहम्ahamएतत्etatनnaवेदvedaयद्गोत्रःyadgotraḥत्वम्tvamअसिasiजबालाjabālāतुtuनामnāmaअहम्ahamअस्मिasmiसत्यकामःsatyakāmaḥनामnāmaत्वम्tvamअसिasiइतिitiसःsaḥअहम्ahamसत्यकामःsatyakāmaḥजाबालःjābālaḥअस्मिasmiभोःbhoḥइतिiti

अन्वय

[गौतमः] तम् ह उवाच—सोम्य, [त्वम्] नु किङ्गोत्रः असि इति । सः ह उवाच—भोः, अहम् यद्गोत्रः अस्मि, एतत् न वेद । मातरम् अपृच्छम्; सा मा प्रत्यब्रवीत्—अहम् बहु चरन्ती परिचरिणी यौवने त्वाम् अलभे । सा अहम् त्वम् यद्गोत्रः असि, एतत् न वेद । तु अहम् जबाला नाम अस्मि; त्वम् सत्यकामः नाम असि इति । भोः, सः अहम् सत्यकामः जाबालः अस्मि इति ।

Passage 60.5

तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रꣳ संपेदुः ॥ ५ ॥

पदच्छेद

तम्tamहhaउवाचuvācaनnaएतत्etatअब्राह्मणःabrāhmaṇaḥविवक्तुम्vivaktumअर्हतिarhatiसमिधम्samidhamसोम्यsomyaआहरāharaउपupaत्वाtvāनेष्येneṣyeनnaसत्यात्satyātअगाःagāḥइतिitiतम्tamउपनीयupanīyaकृशानाम्kṛśānāmअबलानाम्abalānāmचतुःशताःcatuḥśatāḥगाःgāḥनिराकृत्यnirākṛtyaउवाचuvācaइमाःimāḥसोम्यsomyaअनुसंव्रजanusaṃvrajaइतिitiताःtāḥअभिप्रस्थापयन्abhiprasthāpayanउवाचuvācaनnaअसहस्रेणasahasreṇaआवर्तेयāvarteyaइतिitiसःsaḥहhaवर्षगणम्varṣagaṇamप्रोवासprovāsaताःtāḥयदाyadāसहस्रम्sahasramसम्पेदुःsampeduḥ

अन्वय

[गौतमः] तम् ह उवाच—अब्राह्मणः एतत् विवक्तुम् न अर्हति । सोम्य, समिधम् आहर; त्वा उप नेष्ये; [त्वम्] सत्यात् न अगाः इति । तम् उपनीय कृशानाम् अबलानाम् चतुःशताः गाः निराकृत्य उवाच—सोम्य, इमाः अनु संव्रज इति । ताः अभिप्रस्थापयन् [सत्यकामः] उवाच—असहस्रेण न आवर्तेय इति । सः ह वर्षगणम् प्रोवास । यदा ताः सहस्रम् संपेदुः [तदा ऋषभः तम् अभ्युवाद] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 4, खण्ड 4

Read the whole section →