Sunday Meditation· Open to Everyone

अध्याय 2, खण्ड 22

संस्कृत

Passage 35.1

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥

पदच्छेद

विनर्दिvinardiसाम्नःsāmnaḥवृणेvṛṇeपशव्यम्paśavyamइतिitiअग्नेःagneḥउद्गीथःudgīthaḥअनिरुक्तःaniruktaḥप्रजापतेःprajāpateḥनिरुक्तःniruktaḥसोमस्यsomasyaमृदुmṛduश्लक्ष्णम्ślakṣṇamवायोःvāyoḥश्लक्ष्णम्ślakṣṇamबलवत्balavatइन्द्रस्यindrasyaक्रौञ्चम्krauñcamबृहस्पतेःbṛhaspateḥअपध्वान्तम्apadhvāntamवरुणस्यvaruṇasyaतान्tānसर्वान्sarvānएवevaउपसेवेतupasevetaवारुणम्vāruṇamतुtuएवevaवर्जयेत्varjayet

अन्वय

साम्नः विनर्दि पशव्यम् [गानम् अहम्] वृणे इति [यजमानः उद्गाता वा मन्यते] । [तत्] अग्नेः उद्गीथः [अस्ति] । प्रजापतेः अनिरुक्तः [उद्गीथः अस्ति]; सोमस्य निरुक्तः [उद्गीथः अस्ति] । वायोः मृदु श्लक्ष्णम् [गानम् अस्ति]; इन्द्रस्य श्लक्ष्णम् बलवत् [गानम् अस्ति]; बृहस्पतेः क्रौञ्चम् [गानम् अस्ति]; वरुणस्य अपध्वान्तम् [गानम् अस्ति] । तान् सर्वान् एव उपसेवेत; वारुणम् तु एव वर्जयेत् ।

Passage 35.2

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २ ॥

पदच्छेद

अमृतत्वम्amṛtatvamदेवेभ्यःdevebhyaḥआगायानिāgāyāniइतिitiआगायेत्āgāyetस्वधाम्svadhāmपितृभ्यःpitṛbhyaḥआशाम्āśāmमनुष्येभ्यःmanuṣyebhyaḥतृणोदकम्tṛṇodakamपशुभ्यःpaśubhyaḥस्वर्गम्svargamलोकम्lokamयजमानायyajamānāyaअन्नम्annamआत्मनेātmaneआगायानिāgāyāniइतिitiएतानिetāniमनसाmanasāध्यायन्dhyāyanअप्रमत्तःapramattaḥस्तुवीतstuvīta

अन्वय

देवेभ्यः अमृतत्वम् आगायानि इति आगायेत् । पितृभ्यः स्वधाम्, मनुष्येभ्यः आशाम्, पशुभ्यः तृणोदकम्, यजमानाय स्वर्गम् लोकम्, आत्मने अन्नम् आगायानि इति एतानि मनसा ध्यायन् अप्रमत्तः स्तुवीत ।

Passage 35.3

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रꣳशरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥

पदच्छेद

सर्वेsarveस्वराःsvarāḥइन्द्रस्यindrasyaआत्मानःātmānaḥसर्वेsarveऊष्माणःūṣmāṇaḥप्रजापतेःprajāpateḥआत्मानःātmānaḥसर्वेsarveस्पर्शाःsparśāḥमृत्योःmṛtyoḥआत्मानःātmānaḥतम्tamयदिyadiस्वरेषुsvareṣuउपालभेतupālabhetaइन्द्रम्indramशरणम्śaraṇamप्रपन्नःprapannaḥअभूवम्abhūvamसःsaḥत्वाtvāप्रतिpratiवक्ष्यतिvakṣyatiइतिitiएनम्enamब्रूयात्brūyāt

अन्वय

सर्वे स्वराः इन्द्रस्य आत्मानः [सन्ति]; सर्वे ऊष्माणः प्रजापतेः आत्मानः [सन्ति]; सर्वे स्पर्शाः मृत्योः आत्मानः [सन्ति] । यदि तम् स्वरेषु उपालभेत, इन्द्रम् शरणम् प्रपन्नः अभूवम्; सः त्वा प्रति वक्ष्यति इति एनम् ब्रूयात् ।

Passage 35.4

अथ यद्येनमूष्मसूपालभेत प्रजापतिꣳशरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनꣳ स्पर्शेषूपालभेत मृत्युꣳ शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥

पदच्छेद

अथathaयदिyadiएनम्enamऊष्मसुūṣmasuउपालभेतupālabhetaप्रजापतिम्prajāpatimशरणम्śaraṇamप्रपन्नःprapannaḥअभूवम्abhūvamसःsaḥत्वाtvāप्रतिpratiपेक्ष्यतिpekṣyatiइतिitiएनम्enamब्रूयात्brūyātअथathaयदिyadiएनम्enamस्पर्शेषुsparśeṣuउपालभेतupālabhetaमृत्युम्mṛtyumशरणम्śaraṇamप्रपन्नःprapannaḥअभूवम्abhūvamसःsaḥत्वाtvāप्रतिpratiधक्ष्यतिdhakṣyatiइतिitiएनम्enamब्रूयात्brūyāt

अन्वय

अथ यदि एनम् ऊष्मसु उपालभेत, [अहम्] प्रजापतिम् शरणम् प्रपन्नः अभूवम्; सः त्वा प्रतिपेक्ष्यति इति एनम् ब्रूयात् । अथ यदि एनम् स्पर्शेषु उपालभेत, [अहम्] मृत्युम् शरणम् प्रपन्नः अभूवम्; सः त्वा प्रतिधक्ष्यति इति एनम् ब्रूयात् ।

Passage 35.5

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ ५ ॥

पदच्छेद

सर्वेsarveस्वराःsvarāḥघोषवन्तःghoṣavantaḥबलवन्तःbalavantaḥवक्तव्याःvaktavyāḥइन्द्रेindreबलम्balamददानिdadāniइतिitiसर्वेsarveऊष्माणःūṣmāṇaḥअग्रस्ताःagrastāḥअनिरस्ताःanirastāḥविवृताःvivṛtāḥवक्तव्याःvaktavyāḥप्रजापतेःprajāpateḥआत्मानम्ātmānamपरिददानिparidadāniइतिitiसर्वेsarveस्पर्शाःsparśāḥलेशेनleśenaअनभिनिहिताःanabhinihitāḥवक्तव्याःvaktavyāḥमृत्योःmṛtyoḥआत्मानम्ātmānamपरिहराणिpariharāṇiइतिiti

अन्वय

[अहम्] इन्द्रे बलम् ददानि इति सर्वे स्वराः घोषवन्तः बलवन्तः वक्तव्याः । [अहम्] प्रजापतेः आत्मानम् परिददानि इति सर्वे ऊष्माणः अग्रस्ताः अनिरस्ताः विवृताः वक्तव्याः । [अहम्] मृत्योः आत्मानम् परिहराणि इति सर्वे स्पर्शाः लेशेन अनभिनिहिताः वक्तव्याः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 2, खण्ड 22

Read the whole section →