Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 12

संस्कृत

Passage 109.1

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥

पदच्छेद

न्यग्रोधफलम्nyagrodhaphalamअतःataḥआहरāharaइतिitiइदम्idamभगवःbhagavaḥइतिitiभिन्द्धिbhinddhiइतिitiभिन्नम्bhinnamभगवःbhagavaḥइतिitiकिम्kimअत्रatraपश्यसिpaśyasiइतिitiअण्व्यःaṇvyaḥइवivaइमाःimāḥधानाःdhānāḥभगवःbhagavaḥइतिitiआसाम्āsāmअङ्गaṅgaएकाम्ekāmभिन्द्धिbhinddhiइतिitiभिन्नाbhinnāभगवःbhagavaḥइतिitiकिम्kimअत्रatraपश्यसिpaśyasiइतिitiनnaकिञ्चनkiñcanaभगवःbhagavaḥइतिiti

अन्वय

[पिता], अतः न्यग्रोधफलम् आहर इति [उवाच] । [पुत्रः], भगवः, इदम् [फलम्] इति [उवाच] । [पिता], [फलम्] भिन्द्धि इति [उवाच] । [पुत्रः], भगवः, [फलम्] भिन्नम् इति [उवाच] । [पिता], अत्र किम् पश्यसि इति [पप्रच्छ] । [पुत्रः], भगवः, इमाः धानाः अण्व्यः इव [सन्ति] इति [उवाच] । [पिता], अङ्ग, आसाम् एकाम् [धानाम्] भिन्द्धि इति [उवाच] । [पुत्रः], भगवः, [धाना] भिन्ना इति [उवाच] । [पिता], अत्र किम् पश्यसि इति [पप्रच्छ] । [पुत्रः], भगवः, न किञ्चन [पश्यामि] इति [उवाच] ।

Passage 109.2

तँ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति ॥ २ ॥

पदच्छेद

तम्tamहhaउवाचuvācaयम्yamवैvaiसोम्यsomyaएतम्etamअणिमानम्aṇimānamनnaनिभालयसेnibhālayaseएतस्यetasyaवैvaiसोम्यsomyaएषःeṣaḥअणिम्नःaṇimnaḥएवम्evamमहान्mahānन्यग्रोधःnyagrodhaḥतिष्ठतिtiṣṭhatiश्रद्धत्स्वśraddhatsvaसोम्यsomyaइतिiti

अन्वय

[पिता] तम् ह, सोम्य, यम् वै एतम् अणिमानम् न निभालयसे, सोम्य, एतस्य वै अणिम्नः एवम् एषः महान् न्यग्रोधः [उत्पन्नः] तिष्ठति; सोम्य, श्रद्धत्स्व इति उवाच ।

Passage 109.3

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअणिमाaṇimāएतदात्म्यम्etadātmyamइदम्idamसर्वम्sarvamतत्tatसत्यम्satyamसःsaḥआत्माātmāतत्tatत्वम्tvamअसिasiश्वेतकेतोśvetaketoइतिitiभूयःbhūyaḥएवevaमाmāभगवान्bhagavānविज्ञापयतुvijñāpayatuइतिitiतथाtathāसोम्यsomyaइतिitiहhaउवाचuvāca

अन्वय

[पिता], सः यः एषः अणिमा [अस्ति], इदम् सर्वम् एतदात्म्यम् [अस्ति]; तत् सत्यम् [अस्ति]; सः आत्मा [अस्ति]; श्वेतकेतो, तत् त्वम् असि इति [उवाच] । [सः], भगवान् मा भूयः एव विज्ञापयतु इति [उवाच] । [पिता], तथा, सोम्य इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 12

Read the whole section →