Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 5

संस्कृत

Passage 144.1

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ १ ॥

पदच्छेद

अथathaयत्yatयज्ञःyajñaḥइतिitiआचक्षतेācakṣateब्रह्मचर्यम्brahmacaryamएवevaतत्tatब्रह्मचर्येणbrahmacaryeṇaहिhiएवevaयःyaḥज्ञाताjñātāतम्tamविन्दतेvindateअथathaयत्yatइष्टम्iṣṭamइतिitiआचक्षतेācakṣateब्रह्मचर्यम्brahmacaryamएवevaतत्tatब्रह्मचर्येणbrahmacaryeṇaहिhiएवevaइष्ट्वाiṣṭvāआत्मानम्ātmānamअनुविन्दतेanuvindate

अन्वय

अथ यत् यज्ञः इति आचक्षते, तत् ब्रह्मचर्यम् एव [अस्ति] । हि ब्रह्मचर्येण एव यः ज्ञाता, [सः] तम् विन्दते । अथ यत् इष्टम् इति आचक्षते, तत् ब्रह्मचर्यम् एव [अस्ति]; हि ब्रह्मचर्येण एव इष्ट्वा आत्मानम् अनुविन्दते ।

Passage 144.2

अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ २ ॥

पदच्छेद

अथathaयत्yatसत्त्रायणम्sattrāyaṇamइतिitiआचक्षतेācakṣateब्रह्मचर्यम्brahmacaryamएवevaतत्tatब्रह्मचर्येणbrahmacaryeṇaहिhiएवevaसतःsataḥआत्मनःātmanaḥत्राणम्trāṇamविन्दतेvindateअथathaयत्yatमौनम्maunamइतिitiआचक्षतेācakṣateब्रह्मचर्यम्brahmacaryamएवevaतत्tatब्रह्मचर्येणbrahmacaryeṇaहिhiएवevaआत्मानम्ātmānamअनुविद्यanuvidyaमनुतेmanute

Passage 144.3

अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयꣳ सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम् ॥ ३ ॥

पदच्छेद

अथathaयत्yatअनाशकायनम्anāśakāyanamइतिitiआचक्षतेācakṣateब्रह्मचर्यम्brahmacaryamएवevaतत्tatएषःeṣaḥहिhiआत्माātmāनnaनश्यतिnaśyatiयम्yamब्रह्मचर्येणbrahmacaryeṇaअनुविन्दतेanuvindateअथathaयत्yatअरण्यायनम्araṇyāyanamइतिitiआचक्षतेācakṣateब्रह्मचर्यम्brahmacaryamएवevaतत्tatअरःaraḥचcaहhaवैvaiण्यःṇyaḥचcaअर्णवौarṇavauब्रह्मलोकेbrahmalokeतृतीयस्याम्tṛtīyasyāmइतःitaḥदिविdiviतत्tatऐरम्airamमदीयम्madīyamसरःsaraḥतत्tatअश्वत्थःaśvatthaḥसोमसवनःsomasavanaḥतत्tatअपराजिताaparājitāपूःpūḥब्रह्मणःbrahmaṇaḥप्रभुविमितम्prabhuvimitamहिरण्मयम्hiraṇmayam

अन्वय

अथ यत् अनाशकायनम् इति आचक्षते, तत् ब्रह्मचर्यम् एव [अस्ति]; हि यम् ब्रह्मचर्येण अनुविन्दते, एषः आत्मा न नश्यति । अथ यत् अरण्यायनम् इति आचक्षते, तत् ब्रह्मचर्यम् एव [अस्ति] । ह वै इतः तृतीयस्याम् दिवि ब्रह्मलोके अरः च ण्यः च अर्णवौ [स्तः] । तत् ऐरम् मदीयम् सरः [अस्ति]; तत् अश्वत्थः सोमसवनः [अस्ति]; तत् अपराजिता पूः [अस्ति]; ब्रह्मणः प्रभुविमितम् हिरण्मयम् [मण्डपम् अस्ति] ।

Passage 144.4

तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥

पदच्छेद

तत्tatयेyeएवevaएतौetauअरम्aramचcaण्यम्ṇyamचcaअर्णवौarṇavauब्रह्मलोकेbrahmalokeब्रह्मचर्येणbrahmacaryeṇaअनुविन्दन्तिanuvindantiतेषाम्teṣāmएवevaएषःeṣaḥब्रह्मलोकःbrahmalokaḥतेषाम्teṣāmसर्वेषुsarveṣuलोकेषुlokeṣuकामचारःkāmacāraḥभवतिbhavati

अन्वय

तत् ये एव एतौ अरम् च ण्यम् च अर्णवौ ब्रह्मलोके ब्रह्मचर्येण अनुविन्दन्ति, तेषाम् एव एषः ब्रह्मलोकः [अस्ति]; तेषाम् सर्वेषु लोकेषु कामचारः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 5

Read the whole section →