Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 15

संस्कृत

Passage 88.1

अथ होवाच जनँशार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥

पदच्छेद

अथathaहhaउवाचuvācaजनम्janamशार्कराक्ष्यśārkarākṣyaकम्kamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseइतिitiआकाशम्ākāśamएवevaभगवःbhagavaḥराजन्rājanइतिitiहhaउवाचuvācaएषःeṣaḥवैvaiबहुलःbahulaḥआत्माātmāवैश्वानरःvaiśvānaraḥयम्yamत्वम्tvamआत्मानम्ātmānamउपास्सेupāsseतस्मात्tasmātत्वम्tvamबहुलःbahulaḥअसिasiप्रजयाprajayāचcaधनेनdhanenaचca

अन्वय

अथ [सः] जनम् ह, शार्कराक्ष्य, त्वम् कम् आत्मानम् उपास्से इति उवाच । [सः], भगवः राजन्, आकाशम् एव [उपासे] इति ह उवाच । [सः], त्वम् यम् आत्मानम् उपास्से, एषः वै बहुलः आत्मा वैश्वानरः [अस्ति]; तस्मात् त्वम् प्रजया च धनेन च बहुलः असि [इति उवाच] ।

Passage 88.2

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्देहस्त्वेष आत्मन इति होवाच सन्देहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥ २ ॥

पदच्छेद

अत्सिatsiअन्नम्annamपश्यसिpaśyasiप्रियम्priyamअत्तिattiअन्नम्annamपश्यतिpaśyatiप्रियम्priyamभवतिbhavatiअस्यasyaब्रह्मवर्चसम्brahmavarcasamकुलेkuleयःyaḥएतम्etamएवम्evamआत्मानम्ātmānamवैश्वानरम्vaiśvānaramउपास्तेupāsteसन्देहःsandehaḥतुtuएषःeṣaḥआत्मनःātmanaḥइतिitiहhaउवाचuvācaसन्देहःsandehaḥतेteव्यशीर्यत्vyaśīryatयत्yatमाम्māmनnaआगमिष्यःāgamiṣyaḥइतिiti

अन्वय

[त्वम्] अन्नम् अत्सि, प्रियम् पश्यसि । यः एतम् आत्मानम् वैश्वानरम् एवम् उपास्ते, [सः] अन्नम् अत्ति, प्रियम् पश्यति; अस्य कुले ब्रह्मवर्चसम् भवति । एषः तु आत्मनः सन्देहः [अस्ति]; यत् माम् न आगमिष्यः, ते सन्देहः व्यशीर्यत् इति ह उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 15

Read the whole section →